विद्यालयीयकलोत्सवः, पञ्चविंशति वेदिकाः, तेक्किन् काट् मुख्यवेदिका।

तृशूर् – २०१८ जनवरिमासे त्रिशिवपुरे सम्पत्स्यमानस्य विद्यालयीयकलोत्सवस्य सङेघाटकसमितिः जाता। जनुवरि मासस्य ६ तः १० पर्यन्तमेव एष्यायाः सर्वोच्चः अयं कलोत्सवः प्रचलिष्यति। तृशिवपुरुत्तनमेव अस्मिन् वर्षे कलोत्सवस्य आतिथेयत्वं विधास्यति। अत्र तेक्किन् काट् प्रतोलिका एव मुख्या वेदिका इति विद्याभ्यासमन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवदत्। अवरतः द्वे वेदिके तेक्किन् काटे भविता। परमतः पञ्चविंशतिः वेदिकाः भवेयुः। आवश्यकं चेत् अधिकां वेदिकाम् आयोजयिष्यते। कलोत्सवस्य विधिनिर्णयोपि अन्यूनं कर्तुं पद्धतिः आव्ष्कृता। ये पूर्वं द्विवारं विधिनिर्णेतारः आसन् तादृशान् पट्टिकातः निष्कासयिष्यते। छात्राणां शेषीमापनमेव अत्रभवेत्। कलोत्सवस्य रूपरेखासंहारः परिष्कृतः अस्ति। तस्य प्रकाशनमपि कृषिमन्त्रिणे सुनिल्कुमाराय प्रतिकृतिं दत्वा मन्त्री प्रोफ. रवीन्द्रनाथः कृतवान्।
कलोत्सवसंघाटनार्थं २१ समितीनां रूपवत्करणमपि सम्पन्नम्। मन्त्रिवर्ययोः सान्निध्ये समितेः प्रथमम् अधिवेशनमपि प्राचलत्।
कार्यक्रमे नगरपालिका अजिता जयराजः, जिल्ला पञ्चायत् अध्यक्षा षीला विजयकुमारः, सामाजिकः के. राजन्, भूतपूर्वः सामाजिकः टी.वी. चन्द्रमोहन्, उपनगरपालः वर्गीस् कण्टंकुलत्ती प्रभृतयः भागं गृहीतवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *