वर्षशताभ्यन्तरे भारतस्य प्रधाननगराणि आप्लावितानि भविष्यन्ति – नासा ।

नवदिल्ली – आगामिनि वर्षशताभ्यन्तरे प्रधानानि भारतीयनगराणि जलाप्लावितानि भविष्यन्तीति नासा नामिकायाः अमेरिक्का राष्ट्रस्य बहिराकाशपर्यवेक्षणसंस्थायाः अवधाननिर्देशः। आगोल- तापनस्य प्रभावेन विश्वं व्याप्य तापमानम् उन्नतं भविता। अस्याम् अवस्थायां प्रथममाप्लवमानानां नगराणां पट्टिकायांं मुम्बै मंगलूरु नगरे स्तः इति नासा पर्यवेक्षकसङ्घस्य निर्धारणम्।

तीरदेशनगराणि एव जलोपप्लवः अधिकं बाधेत। वर्षशताभ्यन्तरे सामुद्रजलपरिधिः उन्नता भविष्यति। काकिनटा (आन्ध्राप्रदेशः), मुम्बै (महाराष्ट्रा ), मंगलूरु (करणाटका)प्रभृतिषु मुख्येषु नैकाश्रयनगरेषु जलप्रतलम् भाविनिकाले ऊर्धं गमिष्यति इत्यपि नासायाः पठनं सूचयति।

Leave a Reply

Your email address will not be published. Required fields are marked *