Daily Archives: November 15, 2017
परिवहणमन्त्री तोमस् चाण्टी त्यागपत्रम् अयच्छत्।
तिरुवनन्तपुरम् – भूसंसक्षणनियममुल्लङ्घ्य निर्माणप्रवृत्तीः सरोवरातिक्रमणं च कृतवान् इत्यारोपणानन्तरं केरलस्य परिवहणमन्त्री तोमस् चाण्टी वर्यः मन्त्रिमण्डलात् स्वकीयं त्यागपत्रं समर्पितवान्। अद्य प्रातः क्लिफ् हउस् इति मुख्यमन्त्रिणः वसतिं प्राप्य मुख्यमन्त्रिणं पिणरायि विजयं सम्मन्त्र्य एव स त्यागसन्नद्धतामावेदयत्।अनन्तरं एन्.सी.पी. राष्ट्रियनेतृत्वेन सह चर्चां कृत्वा मध्याह्ने त्यागपत्रं मुख्यमन्त्रिणे प्रयच्छति स्म। मुख्यमन्त्री तत् त्यागपत्रं राज्यपालाय प्रैषयच्च।
वाट्टर् वेल्ड् ट्यूरिसं कम्पनी इति निगमस्य निदेशकः अस्ति तोमस् चाण्टी। स निगमः भूसंरक्षणनियमं व्रीहिक्षेत्र-जलाशयनियमं च अलङ्घयत् इत्येवारोपणम्। एतदनुबन्धव्यवहारे ह्यः उच्चन्यायालयः तोमस् चाण्टीं विरुद्ध्य रूक्षं विमर्शनं प्रकटयन्नासीत्। तदनन्तरं मन्त्री स्वपदं त्यक्तुं प्रेरितः अभवन्।
रेल् निस्थानेषु अत्याधुनिकः विश्रामप्रकोष्ठः,प्रथमं कोच्ची-अनन्तपुरी निस्थानयोः।
कोच्ची – ऐ.आर्.सी.टी.सी. संस्थायाः परियोजनानुसारं रेल् निस्थानेषु अत्याधुनिकाः विश्रामप्रकोष्ठाः आरभ्यन्ते। अयं निर्णयः प्राप्तलक्ष्याणां यात्रिकाणाम् अत्यन्तोपकाराय भविष्यति। विश्रान्तेः ऋते टेविविजन्,. इन्टर्नेट् भोजनं,शौचप्रकोष्ठः, वस्त्रप्रक्षालनसुविधा प्रभृतीनि अत्रैव भविष्यन्ति।
ऐ.आर्.सी.टी.सी. जालपुटद्वारा प्रकोष्ठानाम् आरक्षणं कर्तुं शक्यते। तदर्थं यात्रिकैः अभिज्ञापत्रं समर्पणीयम्। प्रथमं तिरुवनन्तपुरं स्न्ट्रल्, एरणाकुलं टउण् निस्थानयोः अस्याः परियोजनायाः आरम्भः। शबरिमला तीर्थाटकानां क्षेमाय अयमारम्भः।