Daily Archives: November 19, 2017

PRASNOTHARAM – 25-11-2017

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. ‘ वन्दे वाल्मीकिकोकिलम् ‘  अत्र कर्तृपदम् किम् ?
  2. “जननी जन्मभूमि्श्च स्वर्गादपि गरीयसी ” कस्मात् ग्रन्थात् स्वीकृतम् वाक्यम् ?
  3. ‘ ऋते ‘ इति शब्दस्य योगे का विभक्तिः ?
  4. “इचुयशानाम्  ” स्थानं किम् ?
  5. स्वप्नवासवदत्तम् नाटके कति अङ्काः सन्ति ?
  6.  ‘ केरलव्यासः ‘ इति प्रसिद्धः कः ?
  7. व्याकरणस्य भाष्यकारः कः ?
  8. प्रक्रियासर्वस्वम् केन विरचितम् भवति ?
  9. लीलावती इति गणितशास्त्रग्रन्थस्य कर्ता कः ?
  10. 2017 तम वर्षस्य लोकसुन्दरी ( Miss World ) का ?

ഈയാഴ്ചയിലെ വിജയി

Dilkrishna C Std 7-C St. Mary’s HSS Chengaloor

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരമയച്ചവര്‍:

  • Dilkrishna C S, St.Marys HS Chengaloor
  • Gokul P
  • Rajani P G,
  • Rajani A G, GUPS Annamanada
  • Bushara V P, GUPS Nediganga, Kannur
  • Adidev C S, Sree Rama Vidyanikethan, Thazhekkad

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

रक्ष रक्षेति रोदिति – 25-11-2017

 समस्या

“रक्ष रक्षेति रोदिति”

ഒന്നാംസ്ഥാനം

ब्लूवेल्क्रीडासमासक्तं
पुत्रं दृष्ट्वा भयाकुला।
सत्वरं मित्रमाहूय
रक्ष रक्षेति रोदिति

Nayana KS

“വിജയികള്‍ക്ക് അഭിനന്ദനങ്ങള്‍”

जयललितायाः वासस्थले आयकरविभागेन सहसान्वीक्षणम्।

चेन्नै – आयकरविभागेन तमिलुनाडुराज्यस्य पूर्वमुख्यमन्त्रिणः जयललितायाः आवासस्थले गतरात्रौ दशवादने सहसान्वीक्षणं कृतम्। अधिकारिभिः प्रोक्तं यत् रात्रौ दशवादने मद्रास् उच्चन्यायालयात् अन्वेषणादेशस्य प्राप्तेरनन्तरं सहसान्वीक्षणं कृतम्। गतरात्रौ चतुःपञ्चहोरापर्यन्तं तस्याः आवासे वेदनिलयम् इत्यत्र आयकरविभागेन अन्वीक्षणं कृतम्।