Daily Archives: November 12, 2017

गौरी लङ्केशहत्या, अपराधिनः गृहीतप्रायाः।

बङ्गलूरु – वरिष्ठायाः माध्यमप्रवर्तिकायाः तथा सङ्घपरिवारविमर्शिकायाश्च गौरी लङ्केशवर्यायाः हत्याकाण्डे व्यवहारः अचिरेण पूर्तीकरिष्यतीति कर्णाटकराज्यस्य गृहमन्त्री रामलिङ्गरेड्डी अवदत्। एकसप्ताहाभ्यन्तरे हत्यायां भागं गृहीतानां नामानि अनाच्छादयिष्यति इत्यपि स न्यगादीत्।

अभिशस्तानां यथार्थचित्राणि लब्धानि। अधुना प्रामाण्यसम्पादनं प्रवर्तते। नरेन्द्र धाबोल्कर्, गोविन्द पन्सारे प्रभृतीनां वधव्यवहारवत् अस्याः हत्यायाः अन्वेषणं स्थगितं न भविष्यति। घातकानां ग्रहणं नूनं भविष्यति इत्यपि स अब्रवीत्।

PRASNOTHARAM – 18-11-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. संस्कृतगद्यकविषु प्रसिद्धः कः ?
  2. सुखाद्युपलब्धिसाधनम् इन्द्रियं किम् ?
  3. वर्तमानकालबोधकः लकारः कः ?
  4. ‘ ऋटुरषाणां ‘ स्थानं किम् ?
  5. परमपुरुषार्थः कः ?
  6. “छायेव तां भूपतिरन्वगच्छत् ” भूपतिः कः ?
  7. “दीपशिखाकालिदासः” इति प्रसिद्धिं प्राप्तुं हेतुभूतः कालिदासग्रन्थः कः?
  8. ‘ सह ‘ इत्यस्य योगे विभक्तिः का ?
  9. राजस्थान् राज्ये प्रचलितायां ” Under 15 Twenty 20 Cricket ”   क्रीडायां धावनाङ्कान् विना दश विक्कटान्  (Vickets) प्राप्तस्य क्री़डालोः नाम  किम्  ?
  10. अस्य वर्षस्य एष्याकप्प् वनिता होक्कि(Asia Cup Women’s Hocky) स्पर्धायां विजयं प्राप्तं राज्यं किम् ?

ഈയാഴ്ചയിലെ വിജയി

PREMJITH C.G. GUPS RAMAPURAM, TVM.

“അഭിനന്ദനങ്ങള്‍”