रेल् निस्थानेषु अत्याधुनिकः विश्रामप्रकोष्ठः,प्रथमं कोच्ची-अनन्तपुरी निस्थानयोः।

कोच्ची – ऐ.आर्.सी.टी.सी. संस्थायाः परियोजनानुसारं रेल् निस्थानेषु अत्याधुनिकाः विश्रामप्रकोष्ठाः आरभ्यन्ते। अयं निर्णयः प्राप्तलक्ष्याणां यात्रिकाणाम् अत्यन्तोपकाराय भविष्यति। विश्रान्तेः ऋते टेविविजन्,. इन्टर्नेट् भोजनं,शौचप्रकोष्ठः, वस्त्रप्रक्षालनसुविधा प्रभृतीनि अत्रैव भविष्यन्ति।

ऐ.आर्.सी.टी.सी. जालपुटद्वारा प्रकोष्ठानाम् आरक्षणं कर्तुं शक्यते। तदर्थं यात्रिकैः अभिज्ञापत्रं समर्पणीयम्। प्रथमं तिरुवनन्तपुरं स्न्ट्रल्, एरणाकुलं टउण् निस्थानयोः अस्याः परियोजनायाः आरम्भः। शबरिमला तीर्थाटकानां क्षेमाय अयमारम्भः।

Leave a Reply

Your email address will not be published. Required fields are marked *