स्वयं प्रतिरोधाय भारतस्याधिकारम् आलम्बते इति अमेरिक्काराष्ट्रम्।

वाषिङ्टण्-भीकरवादं विरुध्य स्वयं प्रतिरोधाय तथा भीकरवादमुन्मूलयितुं भारताय अमेरिक्काराष्ट्रस्य आलम्बनम्। स्वयं प्रतिरोधाय भारतस्याधिकारम् अनुमेने इति ऐक्य-अमरिका-राष्ट्रप्रवक्ता सूचितवान्।

     पुल्वामा भीकराक्रमणस्य पश्चात् भारतस्य राष्ट्रिय-सुरक्षा उपदेष्टारं अजित् डोवल् वर्यं दूरवाणीद्वारा आहूय अमरिकायाः राष्ट्रिय-सुरक्षा-उपदेष्टा जोण् बोल्टन् वर्यः एव कार्यमिदमसूचयत्। पुल्वामा भीकराक्रमणे स स्वकीयंअनुशोचनसन्देशं च दूरवाणीद्वारैव दत्तवान्।

     आतङ्कवादिभ्यः आलम्बनं दीयमानस्य पाकिस्तानस्य प्रवर्तनानि नाङ्गीकरणीयानि, एतानि पूर्णतया समापयितुं पाकिस्तानं प्रति पुनरपि आवेदयिष्यति इत्यपि जोण् बोल्टन् वर्यः अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *