आट्टुकाल् देवीमन्दिरे अद्य पोङ्काला महामहः। अनन्तपुरी भक्तानां महायागशाला जाता।

तिरुवनन्तपुरम्- अद्य आट्टुकाल् मन्दिरे  पोङ्काला महोत्सवः। व्रतशुद्ध्या सह देव्यै पोङ्काला समर्पयितुं लक्षपरिमितानां स्त्रीजनानां सान्निध्यम् अनन्तपुर्यां जातम्। कु्भमासे पूर्वफल्गुनी नक्षत्रं पौर्णमी च युगपदागते दिने एव अयं महोत्सवः आचर्यते।

     प्रातः 10.15 वादने मन्दिरस्थात् दीपात् अग्निमादाय पण्टार अटुप्प् इति चुल्लिकायां  स्थाप्य एव पोङ्काला आरभते। ततः चुल्लिकातः चुल्लिकं अग्निः संक्राम्यते। मन्दिरात् योजनापर्यन्तं दुरे पोङ्कालार्थं चुल्ल्यः स्थापिता वर्तन्ते। मध्याह्ने 2.15 वादने एव पोङ्काला निवेद्यं समर्प्यते। पोङ्कालादिनमालक्ष्य अनन्तपुरीनगरं सुरक्षावलये अस्ति। स्त्रीणां शवरिमला इति प्रसिद्धं भवति आट्टुकाल् मन्दिरम्।

Leave a Reply

Your email address will not be published. Required fields are marked *