अन्ताराष्ट्र आयुर्वेदानुसन्धानकेन्द्राय शिलान्यासं व्यदधात्।

श्रीकण्ठापुरम्, केरलम्- अन्ताराष्ट्रप्रशस्तम् आयुर्वेदानुसन्धानकेन्द्रं केरले अचिरेण सफलं भविष्यति। कण्णूर् श्रीकण्ठापुरसमीपे कल्याट् देशे अस्य केन्द्रस्य शिलान्यासं मुख्यमन्त्रिणा पिणराय् विजयन् वर्येण कृतम्। स्वास्थ्यमन्त्री शैलजा वर्या अध्यक्षा आसीत्।

     केरलस्य आयुर्वेदपारम्पर्यं संरक्षितुं औषधानां फलप्राप्तिं शास्त्रीयरीत्या अवगन्तुं च अनेन केन्द्रेण साध्यं भविता। जीवितशैलीरोगः अर्बुदरोगः वार्धक्यकालरोगः इत्यादिषु नूतनं गवेषणमत्र भविष्यति।

     अमूल्यानां तालीपत्रग्रन्थानां संरक्षणाय नूतना साङ्केतिकविद्या अत्रोपयुज्यते। केन्द्र-राज्यसर्वकारयोः सहयोगेन ३०० कोटिरूप्यकाणां व्ययेनैव केन्द्रस्यास्य निर्माणं क्रियते।

Leave a Reply

Your email address will not be published. Required fields are marked *