कोच्चीनगरे महती अग्निबाधा, जीवहानिः नास्ति।

कोच्ची- कोच्चीनगरे एरणाकुलं सौत् रेल्निस्थानस्य समीपे बहुतलमन्दिरे महती अग्निबाधा जाता। अद्य प्रातः ११ वादने पारगण् इति पादुकसंभरणशालायाम् अग्निबाधा जाता। रब्बर् उपयुज्य निर्मिता पादरक्षा अत्र अधिकतया सम्भृता इत्यतः अग्निबाधायाः काठिन्यं वर्धते। रक्षिदलम् अग्निशमनसेनादलं च पावकशमनकर्मणि व्यापृते वर्तेते। अग्निबाधा आरभ्य होराद्वये अतीते अपि सम्पूर्णनियन्त्रणं न जातम्। अस्यां घटनायां जीवनाश‌ नाभवत्, को/पि रुग्णश्च न संजातः।

Leave a Reply

Your email address will not be published. Required fields are marked *