Monthly Archives: January 2019

सूचनासंरक्षणनियमं प्रवर्तयिष्यति इति केन्द्रसर्वकारः।

जलन्धर्- व्यक्तीः राष्ट्रं च सम्बन्धिन्यः सूचनाः बहिः न गच्छेयुः इति बुद्ध्या सूचनासंरक्षणनियमं प्राबल्यं कर्तुं केन्द्र सर्वकारः सज्जः भवतीति केन्द्रमन्त्री रविशङ्कर् प्रसाद् वर्यः। सूचनानां दुरुपयोगे कठिनं दण्डनमपि विधास्यति इति स अवदत्।

पञ्चाबस्थे जलन्धरे सम्पत्स्यमाने भारतीय-शास्त्र-अधिवेशने भाषमाणः आसीत् सः। आन्तरजालस्य साध्यतां समुपयुज्य विदेशराष्ट्राणि सूचनायाः दुरुपयोगं न कुर्युः इत्यतः अयं नियमः इत्यपि स न्यगादीत्।

२०१५ तमे वर्षे विश्व नवीकरण सूचनायां भारतस्य स्थानं ८१ आसीत्, परं २०१७ तमे वर्षे ६० तमे स्थाने वर्तते इति सो/सूचयत्।

PRASNOTHARAM 12-01-2019

 

प्रश्नोत्तरम्।

 

Last date : 12-01-2019

 

 

  1. भूतकालार्थे स्म योगे कः लकारः भवति ? (क) लङ् (ख) लोट् (ग) लट्)
  2. विवेकानन्दस्वामी चिक्कागोनगरे कस्मिन् वर्षे भाषणमकरोत्  ? (क)१८९३ (ख)१८३९, (ग)१७९३)
  3. प्रथमतया ज्ञानपीठपुरस्कारेण समादृतः केरलीयः? (क) कुमारनाशान् (ख) जि. शङ्करक्कुरुप्प् (ग) वल्लत्तोल्)
  4. मित्रभेदः कस्मिन् ग्रन्थे अन्तर्भवति?  (क) बृहत्कथा (ख) पञ्चतन्त्रः (ग)जातककथा)
  5. मुनेः भावः किम्?  (क) मामुनिः (ख) मुनित्रयं (ग) मौनम्)
  6. अद्य शनिवासरः चेत् प्रपरश्वः कः वासरः ? (क) मङ्गलवासरः (ख) रविवासरः (ग) बुधवासरः)
  7. समुद्रलङ्खनार्थं हनुमान् केन प्रचोदितः?  (क) जाम्बवता (ख) अङ्गदेन  (ग) सुग्रीवेण)
  8. भारते सैनिकेभ्यः दीयमानः परमोन्नतः पुरस्कारः?  कः (क) शौर्यचक्रम् (ख) परमवीरचक्रम् (ग) अर्जुनापुरस्कारः)
  9. नारायणीयम् कस्मिन् काव्यविभागे भवति?  (क) चरित्रकाव्यम् (ख)महाकाव्यम्(ग) स्तोत्रकाव्यम्)
  10. भारतस्य प्रथमः उपग्रहः कः? (क) आर्यभट्ट  (ख) चन्द्रयान् ( ग)पि.एस्.एल्.वि)

ഈയാഴ്ചയിലെ വിജയി

REJI K R

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Reji K  R
  • Renjitha K R
  • Manuel E K
  • Sreejith P K
  • Saraswathy Mohanan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

जन्मदिने वर्णवस्त्रं धृत्वा आगच्छन्ति चेत् छात्राः दण्डं नार्हेयुः। अध्यापकेभ्यो निर्देशः।

तिरुवनन्तपुरम्- जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयमागन्तुं छात्राः प्रभवन्ति। तादृशाः छात्राः न दण्डार्हाः इति सार्वजनीन-शिक्षानिदेशकः सूचनाद्वारा अध्यापकान् आवेदयत्। कातरैन् जे.वी. इति छात्रायाः आवेदनानुसारमेव एष निर्णय इति शिक्षानिदेशककार्यालयवृत्तानी सूचयन्ति।

जन्मदिने वर्णवस्त्रं धृत्वा विद्यालयं गतवती सा। तदानीम् अध्यापकैः सा भर्त्सिता तथा मानसिकपीडनं च अनुभूता इति कातरैन् आवेदयति। तदनुसारमेव निदेॆशकस्य इयं सूचना। इतःपरं जन्मदिने गणवस्त्रं विना वर्णवस्त्रं धृत्वा यः कोपि आगच्छति ते पीडिताः निन्दिता वा न भवेयुः। कार्यमिदं सर्वकारीय-निजीयविद्यालयेषु सममेव बाधकं भवति।

२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता।

२०१९ तमे वर्षे प्रथमं सूर्यग्रहणं जनुवरि ६ दिने रविवासरे दृश्यं भविता। एतद् भागिगं ग्रहणं भविष्यति। अस्मिन् वर्षे पञ्च ग्रहणं भविष्यति। एषु द्वावेव भारते दृश्यं भविता।

जनुवरि ६ तमे दिनाङ्के अनुभूयमानं भागिकं सूर्यग्रहणं भारते दृष्टुं न शक्नोति इति डो. राजेन्द्रप्रसाद् गुप्त वर्यः अवदत्। उज्जयिन्यां स्थितायां जिवाजी ओब्सर्वेट्टरि इति संस्थायां अधिकारी भवति गुप्तावर्यः। उत्तरपूर्व एष्यायां तथा शान्तसमुद्रे च ग्रहणमिदं दृश्यं भविता।

जनुवरी २१ दिनाङ्के पूर्णं चन्द्रग्रहणं भविता। परन्तु दिवासमये एव ग्रहणमित्यतः तदपि भारते न दृष्टुं शक्यते। पुनः जूलै २,३, दिनाङ्के पूर्णसूर्यग्रहणं भविता। एतदपि रात्रौ सञ्जायते इत्यतः भारते दृश्यं न भविष्यति। परं जूलै ६ दिनाङ्के जायमानं भागिकं चन्द्रग्रहणं भारते दृश्यं भविता। एवं दिसम्बर् २३ दिनाङ्के जायमानं सूर्यग्रहणमपि भारते दृश्यं भविष्यति।

पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्

कोच्चीदेशे पिहितान् आपणान् मण्डलाधिकारी उद्घाटनम् अकारयत्। इतःपरं पिधानसमरे सहकरणं न भविता इति व्यापारिसंघः।

कोच्ची- आपणानां बलात्कारेण पिधानम् इतःपरं नानुमन्यते, सुरक्षां विधास्यति इति च एरणाकुलं मण्डलाधिकारी अवदत्।

शबरिमला कर्मसमितिना आयोजितं पिधानसमरमनुबन्ध्य पिहितान् आपणान् मण्डलाधिकारी मुहम्मद् वै सफरुल्ला वर्यः आगत्य उद्घाटनमकारयत्। व्यापरिणाम् अभ्यर्थनामनुसृत्य मण्डलाधिकारी आगत्य एवम् अकारयत्। इतः परं हर्ताल् दिने एरणाकुलस्थानि व्यापारस्थापनानि न पिधास्यन्ति इति व्यापारिणः पूर्वमेव निश्चितवन्तः आसन्।

कोषिक्कोट् नगरे मधुरवीथ्यां व्यापारिणः आपणान् उदघाटयन्। सुरक्षायै आरक्षिदलानां सान्निध्यं निश्चित्यैव प्रातः दशवादने ते आपणान् उदघाटयन्।व्यापारिसंघनेतुः नसिरुद्दीन् वर्यस्य आपणानेव प्रथममुदघाटयत्। तदात्वे कर्मसमितेः प्रवर्तकाः प्रतिषेधेन सह आगत्य केलाहलमकुर्वन्। ते आरक्षिभिः निष्कासिताः च।

नवोत्थानमूल्यसंरक्षणार्थं वनिताप्राकारः

तिरूवनन्तपुरम्- नवोत्थानमूल्यानां संरक्षणसन्देशेन सह वनिताप्राकारः महाप्राकाररूपेण परिणतः। कासरगोड् नगरादारभ्य तिरुवनन्तपुरं वेल्लयम्पलं पर्यन्तं राष्ट्रियरथ्याद्वारा 620 किलोमीट्टर् दैर्घ्ययुक्तं प्राकारं वनितासंघः निरमात्। अंसादंसं पङ्क्तौ स्थित्वा लक्षपरिमिताः वनिताः वनिताप्राकारे भागमभजन्त।

राष्ट्रियवीथ्यां प्रथमं आदर्शरूपेण स्थित्वा अवालोकयन। पुनः प्राकारं संरचयन् धर्मनिरपेक्ष-नवोत्थानप्रतिज्ञां स्वीकृत्य वीथ्याः वामभागे स्त्रियः पङ्क्तिरूपेण अतिष्ठन्। द्वादशनिमेषपर्यन्तमासीत् प्राकारबन्धः। तदनन्तरं मण्डलकेन्द्रेषु सम्मेलनमपि आयोजयत्। कासरगोडे स्वास्थ्यमन्त्री के.के. शैलजावर्या प्रथमं स्थिता। तिरुवनन्तपुरे बृन्दा काराट् वर्या अन्तिमपङ्क्तौ च स्थिता।

वनिताप्राकारः केरलनवोत्थानस्य नूतनः घट्टः। – के. एन्. पणिक्कर्।

कोच्ची- वनिताप्राकारः नवोत्थानस्य नूतनः घट्ट एव, स्त्रीशक्तिः एवं रूपेण बहिरानीयते चेत् समाजस्य प्रचोदकं भविष्यतीति च विख्यातः इतिहासकारः के.एन्. पणिक्कर् वर्यः अवदत्।

कस्मिंश्चित् कालघट्टे सञ्जातः केवलः प्रतिभासः इति रूपेण नवोत्थानं न पश्येयुः। तत् अनुस्यूततया समाजे अनुवर्तमाना प्रक्रिया इति च स न्यगादीत्।

भारते नवोत्थानस्य घट्टत्रयमस्ति। प्रथमघट्टे समाजस्थाम् अनीतिं विरुद्ध्य समररूपेणासीत्। अन्धविश्वासात् जनान् बहिरानेतुं परिश्रम एव तदानीं सञ्जातः। केवलं सामाजिकपरिष्करणे एव तत् संलग्नमासीत्। तत्र राजनैतिकपरिवेषः न संयोजितः।

अनन्तरकालीनं नवोत्थानं सामाजिक परिष्करणस्य राजनैतिकेन संयोज्यैव समारब्धम्। एतत् देशीयप्रस्थानकाले एवासीत्। सामाजपरिष्करणं राजनैतिकं च सममेव प्रवर्तितम्।

तृतीये घट्टे वामपक्षीय-लोकतान्त्रिकचिन्ताधारया सह सामाजिकपरिष्करणस्य सम्बन्धः दृष्टः इत्यपि तेन निगदितम्।