भारतरत्नपुरस्कारः।

भूतपूर्वराष्ट्रपतिः प्रणव् कुमार् मुखर्जी, प्रशस्तः संगीतज्ञः भूपन् हसारिका, राष्ट्रीय स्वयंसेवक संघस्य नेतृष्वन्यतमः नानाजी देशमुख् च भारतसर्वकारेण दीयमानेन सर्वोत्तमपुरस्कारेण समादृताः। गणतन्त्रदिनानुबन्धितया सर्वकारेण पुरस्कारो∫यं दीयते।

     २०१२ तः आरभ्य २०१७ वर्षपर्यन्तं भारतस्य राष्ट्रपतिरासीत् प्रणब् कुमार् मुखर्जी वर्यः। कोन्ग्रस् दलस्य शासनकाले वित्तमन्त्री तथा विदेशकार्यमन्त्री चासीत् अयं महात्मा। १९३५ दिसम्बर् मासस्य ११तमे दिनाङ्के लब्धजन्माभवत्। इदानीमपि राष्ट्रस्य हिताय प्रवर्तमानस्य अस्य कीर्तिः पुरस्कारेणानेन द्विगुणिता वर्तते। राष्ट्रस्यास्य उपराष्ट्रपतिरूपेणापि तस्य योगदानं महदस्ति।

     राष्ट्रीय-स्वयंसेवक-संघस्य नेतृषु अन्यतम आसीत् नानाजी देशमुख् वर्यः। विद्याभ्यासमण्डले स्वास्थ्यक्षेत्रे च कर्म अकरोदयं महात्मा। १९१६ अक्तूबर् ११ दिनाङ्के भूजातो∫यं विविधेषु जनसेवनकर्मसु व्यापृतो∫भवत्। २०१० फेब्रुवरिमासस्य २७ दिनाङ्के दिवमारूढो∫यं नानाजी देश्मुख् इति नाम्ना सुपरिचित आसीत्।

     असां संगीतमण्डले प्रमुख महात्मा भवति भुपन् हसारिका।अयं  सुधाकान्त इति नाम्ना प्रसिद्धः आसीत्। चलनचित्रगायकः, वाग्गेयकारः कविः चलनचित्रनिर्माता चासीत् अयं वर्यः। पद्मश्री, पद्मविभूषण्, पद्मभूषण्, दादा साहिब् फाल्के पुरस्काराः चानेन स्वायत्तीकृता वर्तन्ते। २०११ तमे वर्षे दिवंगतः सः मरणानन्तरत्वेन बहुमानितः सर्वकारेण।

     भारतरत्नपुरस्कारः भारतसर्वकारेण प्रजाभ्यः दीयमानः सर्वोत्तमपुरस्कारः भवति। १९५४ तमे वर्षे जनुवरिमासस्य द्वितीयदिने भारतरत्नपुरस्कारः प्रथमतया आयोजित आसीत्। श्री राजगोपालाचारी वर्याय तस्मिन् वर्षे अयं पुरस्कारः प्रथमतया समर्पितश्च।

Leave a Reply

Your email address will not be published. Required fields are marked *