राज्ये विद्यालयीयशिक्षारंगे समग्रपरिवर्तनाय विदग्धसमितेः अनुशासनम्।

तिरुवनन्तपुरम्- राज्यस्थेषु विद्यालयेषु शिक्षारंगे समग्रपरिवर्तनाय विदग्धसमित्या अनुशासितम्। प्रथमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं शिक्षा एकस्य निदेशालयस्य परिधौ आनयनमेव मुख्यः निर्देशः। एतत्सम्बन्धि आवेदनं समित्यध्यक्षः एन्.ए. खादर् वर्यः मुख्यमन्त्रिणे अदात्।

     निर्देशानुसारं विद्यालयस्य पूर्णनियन्त्रणं प्रांशुपालस्य दायित्वं भविता। शिक्षायाः घट्टद्वयं प्रकीर्तितमत्र। प्रथमघट्टः प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं भवति। एषु अध्यापकानां योग्यता स्नातकबिरुदं तथा बी.एड्. च भवति। अष्टमकक्ष्यातः द्वादशकक्ष्यापर्यन्तं द्वितीयो घट्टः। अत्र अध्यापकानां योग्यता स्नातकोत्तरबिरुदं तथा बी.एड्. च भवति।

.

Leave a Reply

Your email address will not be published. Required fields are marked *