राष्ट्रपितुः प्रतिरूपं प्रति गोलिकाप्रहारः, हिन्दू महासभां प्रतिकृत्वा केरला सैबर् वार्येय्स् इति संघः।

तिरुवनन्तपुरम्- राष्ट्रपितुः महात्मागान्धिनः एकसप्ततितमे रक्तसाक्षित्वदिने हिन्दू महासभया गान्धीवधः पुनराविष्कृतःतथा नाथुरां गोड्से प्रतिमायां हारार्पणं च कृतम्। घटनामेतां अत्यतिशयेन श्रुतवन्तः राष्ट्रपौराः। हिन्दूमहासभायाः राष्ट्रियसचिवा पूजा शुकन् पाण्डे एव गान्धिवधस्य पुनराविॆष्कारमकरोत्। गान्धिनः प्रतिरूपं प्रति क्रीडानालिकाशस्त्रेण सा गोलिकां प्राहरत्।

अस्याः घटनायाः चलनचित्रदृश्यानि समाजमाध्यमेषु प्रचरितानि। अतः समाजस्य विविधेभ्यः कोणेभ्यः महान् प्रतिषेधः अङ्कुरित। तस्य भागत्वेन केरला सैबर् वार्येय्स् इति अन्तर्जालिकासंघः हिन्दूमहाभायाः जालपुटम् अपाहरत्। तत्र सभां विरुध्य मुद्रावाक्यादिकं प्रादर्शयच्च। एष राष्ट्रद्रोहापराधः, अतः तान् विरुध्य सर्वकारीणदण्डार्थं सन्नाहमपि तैः कृतम्।

Leave a Reply

Your email address will not be published. Required fields are marked *