Monthly Archives: October 2018

विश्वे बृहत्तमा प्रतिमा प्रधानमन्त्री राष्ट्राय समार्पयत्।

अहम्मदाबाद् – सर्दार् वल्लभभाय् पट्टेल् वर्यस्य प्रतिमां स्टाच्यू आफ् यूणिट्टी नामिकां प्रधानमन्त्री नरेन्द्रमोदीवर्यः राष्ट्राय समर्पितवान्।

     विश्वे बृहत्तमा एषा प्रतिमा गुर्जरे नर्मदानद्यां सरोवर् जलबन्धस्याभिमुखमेव निर्मिता वर्तते। अस्याः उन्नतिः १८२ मीट्टर् परिमिता वर्तते। अमेरिक्कायाः स्टाच्यू आफ् लिबर्टी नामिकायाः प्रतिमायाः सार्धद्विगुणीकृता उन्नतिरेव पट्टेल् प्रतिमायाः अस्ति।

     प्रतिमायाः समीपं निर्मितम् ऐक्यस्य प्राकारमपि प्रधानमन्त्री उदघाटयत्। उद्घाटनवेलायां वायुसेनाविमानानि आकाशे त्रिवर्णपताकां व्यरचयन्। एतद् अतिकुतुकावहमासीत्।

     सर्दार् पट्टेल् म्यूसियम्, अधिवेशनकेन्द्रं, कुसुमानामुपत्यका प्रभृतयः नैकाः पद्धतयः प्रतिमासमुच्चये अन्तर्भवति।

     गुर्जरे दरिद्रतमा नानापिपाली स्थले एव ३००० कोटि रूप्यकाणि व्ययीकृत्य प्रतिमामेनां निरमादिति विमर्शकाः वदन्ति। प्रतिमया सह त्रिनक्षत्रवसतिगृहं गवेषणकेन्द्रं वस्तुसंग्रहालयः(म्यूसियम्) इत्यादीनां निर्माणमपि लक्ष्यीक्रियते।

केरलसर्वकलाशालया आयोजितः प्रथमः ओ.एन्.वी. साहित्यपुरस्कारः सुगतकुमारीवर्यायै।

तिरुवनन्तपुरम्- विख्यातः कैरलीकविरासीत् स्वर्गीयः ओ.एन्.वी. कुरुप्प् महाशयः। तस्य नाम्नि केरलसर्वकलाशालया आयोजितं प्रथमं साहित्यपुरस्कारं विख्यातकवयित्रिणे सुगतकुमारीवर्यायै प्रदास्यते। लक्षं रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति।

     सामाजिकरंगे साहित्यरंगे च सुगतकुमारिवर्यया क्रियमाणं समग्रं योगदानमभिलक्ष्यैव 2018 तमे वर्षे इमं पुरस्कारं तस्यै समर्पयति इति सर्वकलाशाला पत्रसूचनया व्यजिज्ञपत्।

     डो. बी. शशिकुमार्, डो. एस्. नजीब्, डो.जी. पद्मरावु, डो. सी. अर्. प्रसाद् इत्येतैः सर्वकलाशालाप्राचार्यैर्युता समितिरेव ताम् अचिनोत्। ओ.एन्.वी. कुरुप्प् वर्येण पठिता अध्यापको भूत्वा पाठिता च केरलसर्वकलाशाला तस्य कृते आयोज्यमाना स्मृतिपूजा भवत्ययं पुरस्कारः। नवम्बर् प्रथमे दिनाङ्के पुरस्कारं समर्पयति।

 

संस्कृतभाषा जनकीया करणीया – प्रो. सि. रवीन्द्रनाथः।

तृश्शूर् – संस्कृतभाषा इतो∫पि जनकीया करणीया, संस्कृतपठनाय अधिकावसराः सृजनीया इति केरलस्य शिक्षा सचिवः प्रो. सि. रवीन्द्रनाथः अवोचत्। राज्यस्तरीयं संस्कृतदिनाघोषं उद्घाटयता तेनैवमुक्तम्। भास-कालिदास-प्रभृतीनां योगदानेन संस्कृतम् अधिकतुङ्गपदे विराजते। संस्कृतभाषायाः जनकीयविधाने संस्कृतोत्सवादयः दिनाचरणानि च नितरां सहायकानि भवन्ति… स अभाषत।

     तृश्शूर् नगरे केरला संगीतनाटकाक्कादमि सभामन्दिरे राज्यस्तरीय दशमः संस्कृतदिनाघोषः प्रवृत्तः। केरला शिक्षासचिवः प्रो. रवीन्द्रनाथः दीपं प्रज्वाल्य उद्घाटनं निरवहत्। केरलीय-सार्वजनीन-शिक्षाविभागेन दिनाचरणमिदं प्रचालितम्। सर्वजनीनशिक्षाविभागस्य निदेशकः श्री के.वि.मोहन्कुमारः (ऐ.ए.एस्) स्वागतमाशशंस। संस्कृतं भारतस्य राष्ट्रभाषा अभविष्यत् नूनमत्र भाषाप्रगतिः पठनावसराश्च इतोप्यधिका अभविष्यन्निति सः समसूचयत्। तृशूर् लोकसभामण्डलसदस्यः श्री सि.एन्. जयदेवः अध्यक्षपदमलञ्चकार। नगरीयोपाध्यक्षा श्रीमती बीना मुरली, कोषिक्कोट् सर्वकलाशालायाः प्राध्यापकः डो. पि नारायणन् नम्पूतिरिः, श्री माधवन् पिल्ला, च भाषणमकुर्वन्।

     सभायां पण्डितवर्याः समादृताश्च। संस्कृतपण्डितः श्री के.पि. अच्युतपिषारटिः, सामवेदपण्डितः तोट्टं कृष्णन् नम्पूतिरिः, गुरुवायूर् श्रीकृष्णा महाविद्यालयस्य प्राध्यापकः डो. के.वि वासुदेवन् नम्पूतिरिश्च समादृतेषु प्रमुखाः वर्तन्ते। डो. टि.डी. सुनीतीदेवी, डो. सुनिल्कुमार् कोरोत्त्, प्रभृतयः दिनाघोषस्य संघाटकाः आसन्।

     विविध रचनाविभागेषु स्पर्धा प्रचालिताः आसन्। कथा, कविता, उपन्यासः, समस्यापूरणम्, यात्राविवरणं, लघुचलच्चित्रनिर्मितिश्च तत्रान्तर्भवन्ति। विजयिनः सर्वे पुरस्कारेण सम्मानिताश्च। संस्कृतभाषाध्यापकानां, संस्कृतप्रणयिनां, तथा छात्राणां च प्रचोदकः आसीदयं दिनाघोषः।

सौन्दर्यं चित्तहारकम् – 03-11-2018

 

नूतना समस्या

“सौन्दर्यं चित्तहारकम्”

ഒന്നാംസ്ഥാനം

कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।

Viswambharan, Delhi

“അഭിനന്ദനങ്ങള്‍”

अतितान्त्रिक-कक्ष्याप्रकोष्ठः इति केरलसर्वकारस्य परियोजनायै आन्ताराष्ट्रियः अङ्गीकारः।

तिरुवनन्तपुरम् – केरलीय शिक्षणस्य कृते तान्त्रिकता तथा आधारसंरचना(कैट्) इति संस्थायाः उपाध्यक्षः तथा कार्यकारी निदेशकः श्री अन्वर् सादत्त् वर्यः अन्ताराष्ट्र शैक्षिकसूचना तथा तान्त्रिकतासंघस्य पुरस्कारमाप्तः प्रथमो भारतीयः इति बहुमतिमवाप। ACTE इति अमेरिका संस्था निदेशकः फिलिप् हारिस् वर्यः अन्वर् सादत्त् वर्याय पुरस्कारमदात्।
शिक्षामण्डले अतितान्त्रिकतासंयोजनाय अनवरतं यतमानं एनं महाभागं समारोहे/स्मिन् अधिकारिणः मुक्तकण्ठं प्रशशंसतुः। पाठ्यपद्धतौ तान्त्रिकतासंयोजनेनैव सूचना-तान्त्रिकाधिष्ठितशिक्षा केरलेषु प्रचारमापन्ना इति प्रतिवचनभाषणे अन्वर् सादत्त् वर्येण उक्तम्। स केरलेषु अक्षया, यु.एन्.डी.पी. प्रभृतीनां बहूनां संस्थानां कृते योगदानं व्यदधात्।

बालानाम् अधिकारसंरक्षणे समितीनां प्रवर्तनानि विपुलीकरणीयानि, मुख्यमन्त्री।

तिरुवनन्तपुरम्- बालानाम् अधिकारसंरक्षणाय सर्वैः एकीभूय प्रयतनीयमिति मुख्यमन्त्री पिणरायि विजयः अब्रवीत्। एतदर्थं तद्देशस्वयंभरणमेखलासु प्रवर्तमाना समितयः तासां प्रवर्तनानि ऊर्जितानि कर्तुं यतन्ताम् इति मुख्यमन्त्री प्रबोधयामास।

     सामान्यस्थलेष्वपि बालानाम् अरक्षितावस्था सञ्जायते। सर्वेषु सुरक्षितस्थलं गृहमेवेति सङ्कल्पः अस्ति। परन्तु तत्रापि दुरनुभवाः भवन्तीति समकालीनघटनाः सूच्यन्ते। बालाः विभिन्नाः समस्याः प्रतिदिनम् अभिमुखीकुर्वन्ति इत्यपि स न्यगादीत्।

PRASNOTHARAM – 04-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ” देवमनोहरी ” किम् अस्ति ? (क) कथक् नर्तकी (ख) देवसुन्दरी (ग) कर्णाटकसङ्गीतरागः
  2.  भारतस्य प्रथमः बहिराकाशसञ्चारी  ? (क) सुनिता विल्यंस् (ख) कल्पना चौला  (ग) राकेश् शर्मा
  3.  महात्मागान्धिनः माता का ? (क) जीजाबायी (ख) पुत्लीबायी (ग) रमाबायी
  4. प्रथमः एष्यन् गेयिंस् कुत्र प्राचलत् ? (क) बाङ्कोक् (ख) टोकियो (ग) न्यूदिल्ली
  5. अक्बर् चक्रवर्तिनः धनकार्योपदेष्टा कः ? (क) राजा तोटर्माळ् (ख) बीरबलः (ग)टान्सेन्
  6.  ” गर्ब ” नृत्तं कस्य राज्यस्य भवति ? (क) उत्तरप्रदेशः(ख) गुजरात् (ग) मध्यप्रदेशः
  7. भारते कार्षिकविकसनाय स्थापितः वित्तकोशः क ? (क) नबाड् (ख) भूपणयबाङ्क् (ग) लीड् बाङ्क्
  8. तोमस् आल्वा एडिसण् कुत्र जनिम् अलभत ? (क) मिलान् (ख) बोस्टण् (ग) कालिफोर्णिया
  9. लोकस्य बृहत्तमा दूरदर्शिनी कुत्र भवति? (क) जप्पान् (ख) रष्या (ग) स्पेयिन्
  10. कुरुवा द्वीपः कस्यां नद्यां भवति ? (क) भवानी (ख) कबनी (ग) भारतप्पुषा

ഈയാഴ്ചയിലെ വിജയി

Adithya R

“അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adithya R
  • Dawn Jose
  • Mariya K W
  • Nija T S
  • Aswini Kalyani
  • Amrutha C J
  • Adidev C S

പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍

यात्राशुल्कवर्धनाम् अभिगमयितुम् आयोगः नियुक्तः, निजीय बस् यानानि प्रख्यापितं कर्मस्थगनं प्रत्यसंहरन्।

  • तिरुवनन्तपुरम्- नवंबर् मासस्य प्रथम दिनाङ्कादारभ्य निजीयलोकयानस्वामिभिः घोषितः कर्मविरामः प्रतिनिवर्तितः। यानस्वामिनः परिवहणविभागमन्त्रिणा सह कृतायां चर्चायामेवायं निर्णयः।

     शुल्कवर्धनसम्बन्धीन् अध्येतुं विरतं न्यायाधीशं रामचन्द्रवर्यं आयोगत्वेन सर्वकारः न्ययुङ्क्त। यानस्वामिनां आवेदनानि सर्वाणि परिगणनार्हाणि इति अभिप्रायमेव सर्वकारस्याप्यस्ति। आयोगस्य नियोगादिकं एषा एव सूचना दीयते।

सी.बी.ऐ. आस्थाने काण्ग्रेस् दलस्य महान् प्रतिषेधः, राहुल् गान्धी प्रगृहीतः।

नवदिल्ली-  सी.बी.ऐ. मेधावीपरिवर्तनविषये प्रतिषेधं घोषयता काण्ग्रेस् दलेन सी.बी.ऐ. आस्थानं प्रति आयोजिते पथसञ्चलने महान् प्रतिषेधो जातः। दलाध्यक्षस्य राहुल् गान्धीवर्यस्य नेतृत्वे एव पथसञ्चलनम् आयोजितम्। मार्क्स् वादी साम्यवादीदलप्रभृतीनि विपक्षदलानि अस्मिन् भागमभजन्त। प्रतिषेधसमरम् आयोजितम् इति कारणेन राहुल् गान्धीप्रभृतीन् नेतृन् रक्षिदलमग्रहीत्।

     अर्धरात्रे नेतृपरिवर्तनं लज्जावहं संविधानविरुद्धं चेति राहुल् गान्धी अवदत्। राफेल् युद्धविमानक्रयव्यापारे अन्वेषणं प्रतिरोद्धुमेव सर्वकारः एवमकरोदिति राहुल् गान्धीवर्यः व्यमर्शयत्।

राज्यस्तरीयः संस्कृतदिनाघोषः तृशूर् नगरे सम्पत्स्यते।

तृशूर् – केरलीय सार्वजनीन शिक्षाविभागः प्रतिवर्षं केरलेषु राज्यस्तरीयं संस्कृतदिनं समाचरति। अस्मिन् वर्षे तृशूर् नगरे आघोॆषः समायोजितः भवति। ओक्टोबर् २९ तमे दिनाङ्के सोमवासरे प्रातः दशवादने तृशूर् साहित्य अक्कादमी वेदिकायां समारोहः भविता। शिक्षामन्त्री प्रोफ. सी.रवीन्द्रनाथवर्यः कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति। तृशूर् मण्डलस्य लोकसभासदस्य अध्यक्षः भविता। सार्वजनीनशिक्षानिदेशकः श्री. के.वी. मोहन् कुमार् वर्यः स्वागतं व्याहरिष्यति। संस्कृतदिनसन्देशं संस्कृतकौण्सिल् कार्यदर्शी डो. सुनिल्कुमार् कोरोत् वर्यः ददाति।

प्रसिद्धः कविः गानकारश्च कैतप्रं दामोदरन् नम्पूतिरी मुख्यातिथिर्भविता। पण्डितसमादरणं तृशूर् उपनगरपालिका श्रीमती बिन्दू मुरली निर्वक्ष्यति। प्रमुखाः पण्डिताः के.पी. अच्युतपिषारटी, के.वी. वासुदेवन् नम्पूतिरी, तोट्टं कृष्णन् नम्पूतिरी च समादरणपात्राणि भवन्ति। डो. पी. नारायणन् नम्पूतिरीवर्येण मुख्यभाषणं विधास्यते। एस.सी.इ.आर्.टी. निदेशकः डो.जे.प्रसादः, पाठ्यपद्धतिसमित्यङ्गं प्रो. वी. माधवन् पिल्ला च पुरस्कारवितरणं निर्वक्ष्येते।
शिक्षकाणां कृते आयोजिते साहित्यमत्सरे एते सम्मानिताः आसन्-
कथारचना

१. रम्या पुलियन्नूर् -कण्णूर्.
२. राजेश्वरी पी. पालक्काट्.
३. सतीबाय् – तिरुवनन्तपुरम्।
उपन्यासरचना-

१. निधीष् गोपी – चावक्काट्, तृशूर्.
२. श्रीकुमार् वी.जे. कोल्लम्.
३.क. धन्या – पालक्काट्.
ख. पार्वती -कोल्लम्.
कविता रचना-
१. डो. एं.एस् अजयकुमारः – कोट्टयम्.
२. हरिप्रसाद् वी.टी. कटम्पूर्, तलश्शेरि- कण्णूर्.
३.क. ऊर्मिला पी.- कण्णूर्.
ख. श्रीकुमार् वी.जे. कोल्लम्.
समस्यापूरणम्
१. आर्. उण्णिकृष्णन् – आलप्पुषा.
२. क. रम्या पुलियन्नूर् – कण्णूर्.
२. ख. विनेदिनी टी. तृशूर्.
३. नीलमन उमा कासरगोड्.

ह्रस्वचलचित्रम्
१. खद्योतः- चोतावूर् एच् एस् एस्, तलश्शेरि, कण्णूर्.
२. सौन्दर्यस्रोतस्विनी- एन्.एं.एच्.एस्. तिरूर्, मलप्पुरम्
३. क.अर्भुतरहितं बाल्यम्- ए.एं एच् एस् आलूर्, तृशूर्.
ख. छायातरवः सेन्ट् स्टीफन् एच्.एस.एस्. पत्तनापुरं, केल्लम्.
ह्रस्वचलचित्रे भागं गृहीताः सर्वे संघाः प्रोत्साहनसम्मानाय अर्हाः अभवन्।एतेषां कृते पुरस्कारान् ददाति उपनगरपालिका।

समारोहे/स्मिन् श्री. तेरम्पिल् रामकृष्णन्, के महेष्, श्रीमती लाली तोमस् प्रभृतयः सदस्याः, षैन्मोन् अरविन्दाक्षन् प्रभृतयःउपनिदेशकाः राष्ट्रिय-संस्कृतसंस्थानस्य गुरुवायूर् केन्द्रे प्रांशुपालः डो. सी.एच्. लक्ष्मीनारायणशर्मा, कालटी विश्वविद्यालयीया प्रवक्ता श्रीमती एन्.के. ललना प्रभृतयः आशंसामर्पयन्ति।
एस्.सी.इ. आर्.टी. संस्कृतं सह प्रवक्ता श्री वी. श्रीकण्ठन् प्रभृतीनां सान्निध्यं भविता। सार्वजनीनशिक्षाविभागस्य संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां व्याहरिष्यति।मध्याह्नानन्तरं सङ्गीतसभा कूटियाट्टं, नङ्ङ्यार्कूत्त् ह्रस्वचलचित्रप्रदर्शनं च भविष्यन्ति।