Daily Archives: October 12, 2018

राज्यस्तरीयं संस्कृतदिनाचरणं अस्मिन् मासे तृशूर् नगरे सम्पत्स्यते।

राज्यस्तरीयं संस्कृतदिनं ओक्टोबर् २९ दिनाङ्के तृशूर् संगीत नाटक अक्कादमी वेदिकायां आचर्यते। अस्य कार्यान्वयनाय स्वागतसंघस्य रूपवत्करणम् अद्य जातम्। अद्य तृशूर् सर्वकारीय आदर्श बालकोच्चतरविद्यालये आयोजिते संघाटकसमिति अधिवेशने एव निर्णयो जातः। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य आध्यक्ष्ये आयोजिते अधिवेशने संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीती देवी वर्या उदघाटयत्। चावकिकाट् इरिङ्ङालक्कुटा विद्याभ्यासमण्डलयोः शिक्षाधिकारिणौ उपजिल्ला शिक्षाधिकारिणश्च सन्निहिताः आसन्। मिथु अनितकुमारी, संस्कृतकार्यनिर्वहणसमितेः अङ्गं बिजु डी च आशंसां समार्पयताम्। संस्कृतसमितेः राज्य-कार्यदर्शी सुनिल् कुमार् स्वागतम् व्याहरत्। जिल्ला कार्यदर्शी इन्दु कृतज्ञतां च व्याजहार।
पण्डितसमादरणं मत्सरविजयिभ्यः पुरस्कारदानं संस्कृतं ह्रस्वचलचित्राणां कृते पुरस्कारसमर्पणम् इत्यादिकं कार्यक्रमस्य भागत्वेन आयोजयिष्यते।