Daily Archives: October 1, 2018

त्यागिवर्यः – कविता – विजयन् वि. पट्टाम्बि।

 

      त्यागिवर्यः।                     जीवन्नस्ति सदा चित्ते

महात्मा जननायकः।

अहिंसावादिने तस्मै

त्यागिवर्याय मे नमः।।

अहिंसा परमो धर्म

इत्येवं येन दर्शितम्।

महात्ममे नृवर्याय

गान्धिने मे नुतिस्सदा।।

आदरं कांक्षते नैव

स्थानमानादिकं पुनः।

सत्यं दानं तथा त्यागः

सर्वं तेन सुकांक्षितम्।।

एकं वस्त्रं शरीरे तु

मुखे तदुपलोचनम्।

ललितं जीवनं तस्य

कोfस्ति लोकेषु तत्समः।।

मनसा वचसा चापि

कर्मणा विपुलेन च।

जीवनं नीतवान् लोके

सर्वेभ्यो हितमाचरन्।।

जपन्तं राम रामेति

सर्वलोकहिताय तम्।

गुरुश्रेष्ठं सदा वन्दे

देवतासमयोगिनम्।।

जीजीवेत्स महात्यागी

जनानां चित्तसद्मनि।

वासं क्वान्यत्र सः कुर्या-

दासूर्यचन्द्रतारकम्।।

भारतस्य नीतिव्यवस्था अतिशक्ता – मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः।

नवदिल्ली- भारतस्य नीतिन्यायव्यवस्था विश्वे सर्वशक्ता इति सेवातः निवर्तमानः मुख्यन्यायाधीशः दीपक् मिश्रा वर्यः अवदत्। अतिशायनसंख्याकान् व्यवहारान् प्रचालयितुं शक्ता भवति अस्माकमियं व्यवस्था। सेवातः श्वः निवर्तमानः न्यायाधीशः स्वकीये आपृछने वेदिकायामेवमवदत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशः स्ववर्गलैङ्गिकता आगस्कारिणी नास्तीति निर्णयः इत्यादीन् बहून् व्यवहारनिर्णयान् प्रदाय एव एष वर्यः सेवायाः विरमते।

सत्यस्य पृथक् वर्णं नास्ति सत्येन सह सधैर्यं वर्तिष्य़े इति स अवदत्। दरिद्रस्य सम्पन्नस्य च अश्रूणि समानानि।
जनानां पूर्वचरितं निरीक्ष्य न कदापि मूल्याङ्कनमकरवम्। प्रत्युत तेषां प्रवर्तनानि अवलोक्यैव विधिनिर्णयं कृतम्। इतरराष्ट्रापेक्षया सत्यपथात् भारतीयन्यायाधिपाः न व्यतिचलन्ति इत्यपि दीपक् मिश्रा वर्यः न्यगादीत्।

वैद्यशास्त्र-नेबल् पुरस्काराः प्रख्यापिताः।

स्टोक् होम्- वैद्यशास्त्ररंगे महिमानं परिगणय्य नोबल् पुरस्ताराः प्रख्यापिताः। अर्बुदप्रतिरोधाय नूतनचिकित्साम् आयोजितौ जोयिस् पी. आलिसन् इति अमेरिक्का देशीयः तसुक् फ्राञ्चो इति जपानदेशीयश्च एवं पुरस्कृतौ भवतः। अद्य मध्याह्ने त्रिवादने पुरस्कारः प्रख्यापितः।

     अर्बुदं प्रतिरोद्धुं प्रतिरोधकोशेषु निर्णायकस्य प्रोट्टीन् अंशस्य सान्निध्यं प्रत्यवगतम् इत्यतः फ्राङ्को पुरस्कृतः। तत्सम्बन्धस्य विशेषपठनस्य कृते आनिसण् वर्यः अपि पुरस्कृतः।