विश्वे बृहत्तमा प्रतिमा प्रधानमन्त्री राष्ट्राय समार्पयत्।

अहम्मदाबाद् – सर्दार् वल्लभभाय् पट्टेल् वर्यस्य प्रतिमां स्टाच्यू आफ् यूणिट्टी नामिकां प्रधानमन्त्री नरेन्द्रमोदीवर्यः राष्ट्राय समर्पितवान्।

     विश्वे बृहत्तमा एषा प्रतिमा गुर्जरे नर्मदानद्यां सरोवर् जलबन्धस्याभिमुखमेव निर्मिता वर्तते। अस्याः उन्नतिः १८२ मीट्टर् परिमिता वर्तते। अमेरिक्कायाः स्टाच्यू आफ् लिबर्टी नामिकायाः प्रतिमायाः सार्धद्विगुणीकृता उन्नतिरेव पट्टेल् प्रतिमायाः अस्ति।

     प्रतिमायाः समीपं निर्मितम् ऐक्यस्य प्राकारमपि प्रधानमन्त्री उदघाटयत्। उद्घाटनवेलायां वायुसेनाविमानानि आकाशे त्रिवर्णपताकां व्यरचयन्। एतद् अतिकुतुकावहमासीत्।

     सर्दार् पट्टेल् म्यूसियम्, अधिवेशनकेन्द्रं, कुसुमानामुपत्यका प्रभृतयः नैकाः पद्धतयः प्रतिमासमुच्चये अन्तर्भवति।

     गुर्जरे दरिद्रतमा नानापिपाली स्थले एव ३००० कोटि रूप्यकाणि व्ययीकृत्य प्रतिमामेनां निरमादिति विमर्शकाः वदन्ति। प्रतिमया सह त्रिनक्षत्रवसतिगृहं गवेषणकेन्द्रं वस्तुसंग्रहालयः(म्यूसियम्) इत्यादीनां निर्माणमपि लक्ष्यीक्रियते।

Leave a Reply

Your email address will not be published. Required fields are marked *