Daily Archives: October 16, 2018

मैक्रोसोफ्ट् सहस्थापकः पोल् अलन् अर्बुदरेगबाधया मृतः।

सियाट्टिल्/अमेरिका- मैक्रोसोफ्ट् इति संस्थायाः सह स्थापकः पोल् अलन् वर्यः मृतः। अमेरिकायां सियाच्टिल् स्थले सोमवासरे सायाह्ने आसीदस्य अन्त्यम्। अर्बुदरोगेण पीडितः आसीत् ६५ वयस्कः अलन्। तस्य स्वामित्वे प्रवर्तमाना वाल्कण् इन्कोर्परेशन् इति संस्था एव मृत्युसूचनामदात्।

     पोल् अलन् वर्यस्य वियोगः हृदयभेदकः, स्वस्य प्रियसुहृदेव विनष्ट इति मैक्रोसोफ्ट् मेधावी बिल् गेट्स् वर्यः अवदत्। विद्यालयपठनकाले एतौ परस्परं परिचितौ अभवत्। ततः पठनं विहाय द्वावपि सम्मिल्य १९७५ तमे वर्षे मैक्रोसोफ्ट् संस्थां स्थापयामासतुः।

     फोबस् इति अमेरिका मासपत्रिकायाः गणनानुसारं २०१८ तमे वर्षे विश्वसम्पन्नेषु ४४ तमे स्थाने आसीत् अलन्।