संस्कृतभाषा जनकीया करणीया – प्रो. सि. रवीन्द्रनाथः।

तृश्शूर् – संस्कृतभाषा इतो∫पि जनकीया करणीया, संस्कृतपठनाय अधिकावसराः सृजनीया इति केरलस्य शिक्षा सचिवः प्रो. सि. रवीन्द्रनाथः अवोचत्। राज्यस्तरीयं संस्कृतदिनाघोषं उद्घाटयता तेनैवमुक्तम्। भास-कालिदास-प्रभृतीनां योगदानेन संस्कृतम् अधिकतुङ्गपदे विराजते। संस्कृतभाषायाः जनकीयविधाने संस्कृतोत्सवादयः दिनाचरणानि च नितरां सहायकानि भवन्ति… स अभाषत।

     तृश्शूर् नगरे केरला संगीतनाटकाक्कादमि सभामन्दिरे राज्यस्तरीय दशमः संस्कृतदिनाघोषः प्रवृत्तः। केरला शिक्षासचिवः प्रो. रवीन्द्रनाथः दीपं प्रज्वाल्य उद्घाटनं निरवहत्। केरलीय-सार्वजनीन-शिक्षाविभागेन दिनाचरणमिदं प्रचालितम्। सर्वजनीनशिक्षाविभागस्य निदेशकः श्री के.वि.मोहन्कुमारः (ऐ.ए.एस्) स्वागतमाशशंस। संस्कृतं भारतस्य राष्ट्रभाषा अभविष्यत् नूनमत्र भाषाप्रगतिः पठनावसराश्च इतोप्यधिका अभविष्यन्निति सः समसूचयत्। तृशूर् लोकसभामण्डलसदस्यः श्री सि.एन्. जयदेवः अध्यक्षपदमलञ्चकार। नगरीयोपाध्यक्षा श्रीमती बीना मुरली, कोषिक्कोट् सर्वकलाशालायाः प्राध्यापकः डो. पि नारायणन् नम्पूतिरिः, श्री माधवन् पिल्ला, च भाषणमकुर्वन्।

     सभायां पण्डितवर्याः समादृताश्च। संस्कृतपण्डितः श्री के.पि. अच्युतपिषारटिः, सामवेदपण्डितः तोट्टं कृष्णन् नम्पूतिरिः, गुरुवायूर् श्रीकृष्णा महाविद्यालयस्य प्राध्यापकः डो. के.वि वासुदेवन् नम्पूतिरिश्च समादृतेषु प्रमुखाः वर्तन्ते। डो. टि.डी. सुनीतीदेवी, डो. सुनिल्कुमार् कोरोत्त्, प्रभृतयः दिनाघोषस्य संघाटकाः आसन्।

     विविध रचनाविभागेषु स्पर्धा प्रचालिताः आसन्। कथा, कविता, उपन्यासः, समस्यापूरणम्, यात्राविवरणं, लघुचलच्चित्रनिर्मितिश्च तत्रान्तर्भवन्ति। विजयिनः सर्वे पुरस्कारेण सम्मानिताश्च। संस्कृतभाषाध्यापकानां, संस्कृतप्रणयिनां, तथा छात्राणां च प्रचोदकः आसीदयं दिनाघोषः।

Leave a Reply

Your email address will not be published. Required fields are marked *