सी.बी.ऐ. आस्थाने काण्ग्रेस् दलस्य महान् प्रतिषेधः, राहुल् गान्धी प्रगृहीतः।

नवदिल्ली-  सी.बी.ऐ. मेधावीपरिवर्तनविषये प्रतिषेधं घोषयता काण्ग्रेस् दलेन सी.बी.ऐ. आस्थानं प्रति आयोजिते पथसञ्चलने महान् प्रतिषेधो जातः। दलाध्यक्षस्य राहुल् गान्धीवर्यस्य नेतृत्वे एव पथसञ्चलनम् आयोजितम्। मार्क्स् वादी साम्यवादीदलप्रभृतीनि विपक्षदलानि अस्मिन् भागमभजन्त। प्रतिषेधसमरम् आयोजितम् इति कारणेन राहुल् गान्धीप्रभृतीन् नेतृन् रक्षिदलमग्रहीत्।

     अर्धरात्रे नेतृपरिवर्तनं लज्जावहं संविधानविरुद्धं चेति राहुल् गान्धी अवदत्। राफेल् युद्धविमानक्रयव्यापारे अन्वेषणं प्रतिरोद्धुमेव सर्वकारः एवमकरोदिति राहुल् गान्धीवर्यः व्यमर्शयत्।

Leave a Reply

Your email address will not be published. Required fields are marked *