Daily Archives: October 23, 2018

केरलीय रक्षिदलस्य मुखपुस्तकपुटं अतिप्रचारयुक्तम्

कोट्टयम्- केरलीय रक्षिदलस्य मुखपुस्तकपुटम् अधुना अतिप्रचारयुक्तमभवत्। आक्षेपहास्यद्वारा सामान्यजनसम्बन्धीन् प्रश्नान् तस्य उत्तराणि च दत्वा नवलोकयुवकानाम् इष्टत्वं सम्पादितमिदं पुटम्।

न्यूयोर्क् रक्षिदलविभागस्य एतादृशं पुटं पश्चात्कृत्यैव केरलरक्षिदलस्य पुटं विश्वे सर्वप्रथमं सञ्जातम्। न्यूयोरक् रक्षिदलस्य ७.८३ लक्षम् अभीष्टमेवास्ति परं केरलीयरक्षिदलस्य ८.१९ लक्षं जनानाम् अभीष्टमस्ति। प्रलयप्रतिसन्धिघट्टे अपि सहैव स्थितानां कृते कृतज्ञतां वदति रक्षिदलम्।