राज्यस्तरीयः संस्कृतदिनाघोषः तृशूर् नगरे सम्पत्स्यते।

तृशूर् – केरलीय सार्वजनीन शिक्षाविभागः प्रतिवर्षं केरलेषु राज्यस्तरीयं संस्कृतदिनं समाचरति। अस्मिन् वर्षे तृशूर् नगरे आघोॆषः समायोजितः भवति। ओक्टोबर् २९ तमे दिनाङ्के सोमवासरे प्रातः दशवादने तृशूर् साहित्य अक्कादमी वेदिकायां समारोहः भविता। शिक्षामन्त्री प्रोफ. सी.रवीन्द्रनाथवर्यः कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति। तृशूर् मण्डलस्य लोकसभासदस्य अध्यक्षः भविता। सार्वजनीनशिक्षानिदेशकः श्री. के.वी. मोहन् कुमार् वर्यः स्वागतं व्याहरिष्यति। संस्कृतदिनसन्देशं संस्कृतकौण्सिल् कार्यदर्शी डो. सुनिल्कुमार् कोरोत् वर्यः ददाति।

प्रसिद्धः कविः गानकारश्च कैतप्रं दामोदरन् नम्पूतिरी मुख्यातिथिर्भविता। पण्डितसमादरणं तृशूर् उपनगरपालिका श्रीमती बिन्दू मुरली निर्वक्ष्यति। प्रमुखाः पण्डिताः के.पी. अच्युतपिषारटी, के.वी. वासुदेवन् नम्पूतिरी, तोट्टं कृष्णन् नम्पूतिरी च समादरणपात्राणि भवन्ति। डो. पी. नारायणन् नम्पूतिरीवर्येण मुख्यभाषणं विधास्यते। एस.सी.इ.आर्.टी. निदेशकः डो.जे.प्रसादः, पाठ्यपद्धतिसमित्यङ्गं प्रो. वी. माधवन् पिल्ला च पुरस्कारवितरणं निर्वक्ष्येते।
शिक्षकाणां कृते आयोजिते साहित्यमत्सरे एते सम्मानिताः आसन्-
कथारचना

१. रम्या पुलियन्नूर् -कण्णूर्.
२. राजेश्वरी पी. पालक्काट्.
३. सतीबाय् – तिरुवनन्तपुरम्।
उपन्यासरचना-

१. निधीष् गोपी – चावक्काट्, तृशूर्.
२. श्रीकुमार् वी.जे. कोल्लम्.
३.क. धन्या – पालक्काट्.
ख. पार्वती -कोल्लम्.
कविता रचना-
१. डो. एं.एस् अजयकुमारः – कोट्टयम्.
२. हरिप्रसाद् वी.टी. कटम्पूर्, तलश्शेरि- कण्णूर्.
३.क. ऊर्मिला पी.- कण्णूर्.
ख. श्रीकुमार् वी.जे. कोल्लम्.
समस्यापूरणम्
१. आर्. उण्णिकृष्णन् – आलप्पुषा.
२. क. रम्या पुलियन्नूर् – कण्णूर्.
२. ख. विनेदिनी टी. तृशूर्.
३. नीलमन उमा कासरगोड्.

ह्रस्वचलचित्रम्
१. खद्योतः- चोतावूर् एच् एस् एस्, तलश्शेरि, कण्णूर्.
२. सौन्दर्यस्रोतस्विनी- एन्.एं.एच्.एस्. तिरूर्, मलप्पुरम्
३. क.अर्भुतरहितं बाल्यम्- ए.एं एच् एस् आलूर्, तृशूर्.
ख. छायातरवः सेन्ट् स्टीफन् एच्.एस.एस्. पत्तनापुरं, केल्लम्.
ह्रस्वचलचित्रे भागं गृहीताः सर्वे संघाः प्रोत्साहनसम्मानाय अर्हाः अभवन्।एतेषां कृते पुरस्कारान् ददाति उपनगरपालिका।

समारोहे/स्मिन् श्री. तेरम्पिल् रामकृष्णन्, के महेष्, श्रीमती लाली तोमस् प्रभृतयः सदस्याः, षैन्मोन् अरविन्दाक्षन् प्रभृतयःउपनिदेशकाः राष्ट्रिय-संस्कृतसंस्थानस्य गुरुवायूर् केन्द्रे प्रांशुपालः डो. सी.एच्. लक्ष्मीनारायणशर्मा, कालटी विश्वविद्यालयीया प्रवक्ता श्रीमती एन्.के. ललना प्रभृतयः आशंसामर्पयन्ति।
एस्.सी.इ. आर्.टी. संस्कृतं सह प्रवक्ता श्री वी. श्रीकण्ठन् प्रभृतीनां सान्निध्यं भविता। सार्वजनीनशिक्षाविभागस्य संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां व्याहरिष्यति।मध्याह्नानन्तरं सङ्गीतसभा कूटियाट्टं, नङ्ङ्यार्कूत्त् ह्रस्वचलचित्रप्रदर्शनं च भविष्यन्ति।

 

Leave a Reply

Your email address will not be published. Required fields are marked *