Daily Archives: October 30, 2018

केरलसर्वकलाशालया आयोजितः प्रथमः ओ.एन्.वी. साहित्यपुरस्कारः सुगतकुमारीवर्यायै।

तिरुवनन्तपुरम्- विख्यातः कैरलीकविरासीत् स्वर्गीयः ओ.एन्.वी. कुरुप्प् महाशयः। तस्य नाम्नि केरलसर्वकलाशालया आयोजितं प्रथमं साहित्यपुरस्कारं विख्यातकवयित्रिणे सुगतकुमारीवर्यायै प्रदास्यते। लक्षं रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति।

     सामाजिकरंगे साहित्यरंगे च सुगतकुमारिवर्यया क्रियमाणं समग्रं योगदानमभिलक्ष्यैव 2018 तमे वर्षे इमं पुरस्कारं तस्यै समर्पयति इति सर्वकलाशाला पत्रसूचनया व्यजिज्ञपत्।

     डो. बी. शशिकुमार्, डो. एस्. नजीब्, डो.जी. पद्मरावु, डो. सी. अर्. प्रसाद् इत्येतैः सर्वकलाशालाप्राचार्यैर्युता समितिरेव ताम् अचिनोत्। ओ.एन्.वी. कुरुप्प् वर्येण पठिता अध्यापको भूत्वा पाठिता च केरलसर्वकलाशाला तस्य कृते आयोज्यमाना स्मृतिपूजा भवत्ययं पुरस्कारः। नवम्बर् प्रथमे दिनाङ्के पुरस्कारं समर्पयति।