Daily Archives: October 3, 2018

दिल्लयां प्रवेशाय अनुमतिः प्राप्ता, कृषकाणां समरस्य समाप्तिः।

नवदिल्ली- भारतीय़कृषकसंघः उत्तरप्रदेश-दिल्ली सीमायाम् आयोजितं समरं प्रत्यपाययत्। ह्यस्तने रात्रौ दिल्ली किसान् घट्टस्थले केचन कृषकाः प्रविष्टाः। ततः प्रातः समरस्य समाप्तिश्च जाता।
कार्षिक ऋणादाश्वास प्रभृतीनि निवेदनानि इतः पर्यन्तं नाङ्गीकृतानि। तथापि समरमवसितम्। तदन्तरे ह्यस्तने संजाते सङ्घर्षे भग्नानि ट्राक्टर् यानानि समीकृत्यैव प्रतिगच्छतीति केचन कृषकाः निरणयन्। ते तत्रैव तिष्ठन्ति।

सर्वोच्चन्यायालये मुख्यन्यायाधीशपदव्यां ज. रञ्जन् गोगोय् वर्यः शपथमग्रहीत्।

नवदिल्ली-  सर्वोच्चन्यायालयस्य ४६ तमः मुख्यन्यायाधीशः रञ्जन् गोगोय् वर्यः राष्ट्रपतिभवने शपथं गृहीत्वा धुरामवहत्। राष्ट्रपतिः रामनाथकोविन्दवर्यः तस्मै सत्यवाचकं श्रावयति स्म। ह्यस्तने सेवानिवृत्तस्य ज. दीपक् मिश्रावर्यस्य स्थाने एवेदं शपथग्रहणम्।

     असमराज्यस्य भूतपूर्वमुख्यमन्त्रिणः केशवचन्द्र गोगोय् वर्यस्य पुत्रः भवति रञ्जन् गोगोय्। स १९५४ तमे वर्षे जनिमलभत। २००१ तमे वर्षे अयं गुहावती उच्चन्यायालये न्यायाधिपपदमावहत्। ततः पञ्चाब-हरिय़ाणा उच्चन्यायालये न्याय़ाधीशपदवीं वहन्तं तं २०१२ तमे वर्षे सर्वोच्चन्यायालये न्यायाधिपत्वेन नियोजयामास। दीपक् मिश्रावर्यं विरुध्य न्यायाधिपानां प्रक्षोभे एषः अग्रेसरः आसीत्।