Monthly Archives: October 2018

शबरिमला – महिलाः प्रतिरुद्धान् विरुध्य सर्वोच्चन्यायालये न्यायालयावमाननावेदनम्।

दिल्ली- शबरिमलां प्रवेष्टुमागताः महिलाः मन्दिरसमीपं प्रतिरुद्धान् जनान् संघटनां च विरुध्य सर्वोच्चन्यायालये न्यायालयावमाननावेदनानि समर्पितानि। केरलीये द्वे महिले एव एतस्मिन् विषये न्यायालयं प्रापयताम्।

     आवेदनानां पञ्जीकरणाय एते मुख्यन्यायवक्तुः अनुमतिं प्रार्थयामासतुः। सर्वोच्चन्यायालयं विरुध्य प्रवर्तनं प्रभाषणं च कुर्वाणः भा.ज.पा. दलस्य राज्याध्यक्षः पी.एस्. श्रीधरन् पिल्लावर्यः, कोल्लं तुलसी इति नटः, मुरलीधरन्, उण्णित्तान् इत्येतान् विरुध्य व्यवहारः आवश्यकः इति वनिता अभिभाषिकायाः आवेदने सूचयति।

     मन्दिरतन्त्री कण्ठर् राजीवर् वर्यः पी. रामवर्मराजः इत्येतौ विरुध्य अन्या महिला अपि न्यायालयं प्राविशत्।

केरलीय रक्षिदलस्य मुखपुस्तकपुटं अतिप्रचारयुक्तम्

कोट्टयम्- केरलीय रक्षिदलस्य मुखपुस्तकपुटम् अधुना अतिप्रचारयुक्तमभवत्। आक्षेपहास्यद्वारा सामान्यजनसम्बन्धीन् प्रश्नान् तस्य उत्तराणि च दत्वा नवलोकयुवकानाम् इष्टत्वं सम्पादितमिदं पुटम्।

न्यूयोर्क् रक्षिदलविभागस्य एतादृशं पुटं पश्चात्कृत्यैव केरलरक्षिदलस्य पुटं विश्वे सर्वप्रथमं सञ्जातम्। न्यूयोरक् रक्षिदलस्य ७.८३ लक्षम् अभीष्टमेवास्ति परं केरलीयरक्षिदलस्य ८.१९ लक्षं जनानाम् अभीष्टमस्ति। प्रलयप्रतिसन्धिघट्टे अपि सहैव स्थितानां कृते कृतज्ञतां वदति रक्षिदलम्।

भा.ज.पा. दल- राष्ट्रियनेतृत्वस्य अभिप्रायं विरुध्य टि.जि. मोहन्दास्।

शबरिमलामन्दिरे स्त्रीप्रवेशविषये सर्वोच्चन्यायालयस्य न्यायविधिं स्वागतीकृतस्य भा.ज.पा. दल- राष्ट्रियनेतृत्वस्य अभिप्रायं विरुध्य राज्यस्तरीय भा.ज.पा.दलसदस्याः प्रक्षाभं कुर्वन्ति। तदन्तरे दलस्यास्य बौद्धिकप्रमुखः टी.जी. मोहन्दास् वर्यः अनुकूलवादेन सह रंगमागतः। स्त्रियः शबरिमलायां गच्छन्ति स्म। सप्तवर्षपर्यन्तं अय्यप्पः ब्रह्मचारी नासीत्। शबरिमलशास्तृसङ्कल्पः कलत्रद्वयेन अर्भकेण च युतः एव। अय्यप्पः नैष्ठिकब्रह्मचारी चेत् मालिकप्पुरत्तम्मा तत्र कथमुपविशति इत्यादिकं स उन्नेति।
रिप्पोर्टर् माध्यमेन आयोजितायां चर्चायां भागं वहन् स अब्रवीत् यत् शबरिमलायां स्त्रीणां रोधनं कुर्वाणाः इतिहासमाच्छादयन्ति इति। तत्र स्त्रियः न प्राविशन् इति वादः अलीक एव, यात्रादुर्धटेन न्यूनसंख्यका एव आगता इत्येव याथार्थ्यम्।

लीला मेनन् इति पत्रिकाकारा ५० वर्षवयसः पूर्वं तत्र गत्वा वार्ताम् आवेदयति स्म इति तस्याः आत्मकथायां सूचना अस्तीत्यपि स अवोचत्।

सर्वं भवतु मङ्गलम् – 27-10-2018

സമസ്യാപൂരണമത്സരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം…👍👍

नूतना समस्या –

“सर्वं भवतु मङ्गलम्”

ഒന്നാംസ്ഥാനം

तत्त्वमसीति सद्वाक्यं
अर्थपूर्णं हि स्वीकुरु।
नरनारीप्रभेदादि
सर्वं भवतु मङ्गलम्।।

Satwik Bijoy

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 27-10-2018

പ്രശ്നോത്തരം അമ്പതാം എപ്പിസോഡിലേക്ക് ഏവര്‍ക്കും സ്വാഗതം!

 

 

प्रश्नोत्तरम्।

 

  1. केरलस्य प्रथममन्त्रिसभायाः आरोग्यमन्त्री कः आसीत् ? (क) सी अच्युतमेनोन् (ख) के पी गोपालः (ग) डो: ए आर् मेनोन्
  2. सूर्यक्षेत्रं कुत्र भवति ? (क) कोणार्के (ख) अमृतसरे (ग) काश्याम्
  3. भारतस्य प्रथमा वनिता राज्यपालिका का ? (क) लक्ष्मी एन् मेनोन् (ख) सुचेता कृपलानी (ग) सरोजिनी नायिडुः
  4. नेताजी सुभास् चन्द्रबोसस्य राष्ट्रीयगुरुः कः?  (क) सी आर् दासः (ख) सर्दार् वल्लभायी पट्टेलः (ग) गोपालकृष्ण गोकले 
  5. ” युनानि ” चिकित्सायाः प्रचारकाः के ? (क) ग्रीक् जनाः (ख) रोमा जनाः (ग) अरब् जनाः
  6. राजतरङ्गिण्याः कर्ता कः? (क) कल्हणः (ख) राजशेखरः (ग) सोमदेवः
  7. गुप्तराजानां राजगृहम् अलंकृतः आयुर्वेदाचार्यः कः ? (क) शुश्रुतः (ख)धन्वन्तरी (ग) वररुचिः
  8. ग्रन्थशालासङ्घस्य स्थापकः कः ? (क) एस् के पोट्टेक्काट् (ख) पी एन् पणिक्कर् (ग) जोसफ् मुण्टश्शेरी
  9. ” सत्यमेव जयते ” इति कस्मात् स्वीकृतम्  ? (क) ईशावास्योपनिषदः (ख )मुण्टकोपनिषदः (ग) कठोपनिषदः
  10. वेदाङ्गानां संख्या कति  ?  (क) ४  (ख) ५  (ग) ६

ഈയാഴ്ചയിലെ വിജയി

SREESANKAR P M

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreesankar P M
  • Adidev C S
  • Adwaith C S
  • Amrutha C J
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

कृतकचन्द्रविन्य़ासार्थं चीनाराष्ट्रस्य उद्यमः।

बेय्जिङ्- नगरेषु वीथीदीपानां स्थाने कृतकचन्द्रविन्यासार्थं चीनाशास्त्रज्ञाः सज्जाः भवन्ति। एतत् सिचुवान् प्रविश्यायां चेङ्गुडु नगरस्य उपरि स्थापनार्थं पद्धतिराविष्कृता। २०२० तमे वर्षे पद्धतिरियं पूर्णा भविता इति सयन्स् आन्ट् टेक्नोलजी दैनिकी आवेदयति।

      भौमोपरितलात् ५०० कि.मी. औन्नत्ये भ्रमणपथे एव महादर्पणयुक्ताः उपग्रहरूपाः कृतकचन्द्राः स्थाप्यन्ते। मनुष्यनिर्मितात् एतस्मात् चन्द्रात् प्रभूतं सूर्यप्रकाशं भूमौ प्रतिफलितुं श्क्यते। साधारणतया चन्द्रात् लब्धस्य प्रकाशस्य अष्टगुणितं प्रकाशम् अस्माल्लभते इत्यावेदनम्।

     कृतकचन्द्रस्थापनपद्धतेः ऊर्जलाभमपि लक्ष्यीक्रियते। भूमौ पतन् प्रकाशः वीथीदीपस्य स्थानं वोढुं प्रभवतीति सिन्हुवा नामकः चीनामाध्यमः आवेदयति।

भूतपूर्वः केन्द्रमन्त्री तथा काण्ग्रेस् दलस्य वरिष्ठनेता एन्.डी.तिवारीवर्यः दिवङ्गतः।

विद्यालयेषु सौरोर्जपद्धतिः- पेरूर्कटा सर्वकारीय- बालिका- उच्चतरविद्यालये प्रारम्भः।

तिरुवनन्तपुरम्- राज्यस्थेषु विद्यालयेषु आयोज्यमानायाः सौरोर्जपद्धतेः प्रारम्भः वट्टियूर्क्काव् विधानसभामण्डलस्य पेरूर्कटा सर्वकारीय-बालिका-उच्चतरविद्यालये भविष्यति। पद्धत्यर्थं सामाजिकस्य के.मुरलीधरन् वर्यस्य मण्डलविकासनिधीतः ८.५८ लक्षं रूप्यकाणि दत्तानि।
पद्धत्यन्तर्गतः राज्यस्तरीयः प्रथमः विद्यालयः भवत्ययम्। अनेर्ट् इति संस्थाद्वारैव पद्धतिः आयोज्यते। विद्यालयोषु विद्युदुपयोगः अनया पद्धत्या संयोक्ष्यते।

मैक्रोसोफ्ट् सहस्थापकः पोल् अलन् अर्बुदरेगबाधया मृतः।

सियाट्टिल्/अमेरिका- मैक्रोसोफ्ट् इति संस्थायाः सह स्थापकः पोल् अलन् वर्यः मृतः। अमेरिकायां सियाच्टिल् स्थले सोमवासरे सायाह्ने आसीदस्य अन्त्यम्। अर्बुदरोगेण पीडितः आसीत् ६५ वयस्कः अलन्। तस्य स्वामित्वे प्रवर्तमाना वाल्कण् इन्कोर्परेशन् इति संस्था एव मृत्युसूचनामदात्।

     पोल् अलन् वर्यस्य वियोगः हृदयभेदकः, स्वस्य प्रियसुहृदेव विनष्ट इति मैक्रोसोफ्ट् मेधावी बिल् गेट्स् वर्यः अवदत्। विद्यालयपठनकाले एतौ परस्परं परिचितौ अभवत्। ततः पठनं विहाय द्वावपि सम्मिल्य १९७५ तमे वर्षे मैक्रोसोफ्ट् संस्थां स्थापयामासतुः।

     फोबस् इति अमेरिका मासपत्रिकायाः गणनानुसारं २०१८ तमे वर्षे विश्वसम्पन्नेषु ४४ तमे स्थाने आसीत् अलन्।

अलहबादनगरस्य प्रयागराज् इति नामपरिवर्तनम्।

लख्नौ- अलहबाद मण्डलस्य नाम प्रयागराज् इति परिवर्तनं करिष्यतीति उत्तरप्रदेश मुख्यमन्त्री योगी आदित्यनाथ् वर्यः अवदत्। २०१९ जनुवरीतः मार्च् पर्यन्तं सम्पत्स्यमानायाः कुम्भमेलायाः अनुबन्धेनैव नामपरिवर्तनं।      कुम्भमेलायाः सज्जीकरणानि पूर्तीकरणेन सहैव नाम परिवर्तनार्थं प्रमेयमपि अङ्गीकरिष्यति। आगामिनि संसदधिवेशने अस्य निर्णयं भविष्यतीति योगी अवदत्। कुम्भमेलासज्जीकरणानि प्रायः सम्पूर्णानि इत्यपि योगी अवोचत्।