Daily Archives: October 7, 2018

चक्रवातसहितः न्यूनमर्दः पश्चिमं प्रति, लक्षद्वीपे केरलप्रान्ते च वृष्टिः।

पत्तनंतिट्टा- महती वृष्टिर्भविष्यतीति जाग्रतानिर्देशे अपि रविवासरे मध्याह्नपर्यन्तं केरलेषु तादृशी वृष्टिः न जाता। परं मध्याह्नादूर्ध्वं सौदामिनीसहिता वृष्टिः केरलेषु प्रायः सर्वेषु प्रान्तेषु जाता। पूर्वाम्बरः मेघावृतो जातः। पश्चिमाम्बरस्तु शुभ्रमेघैराच्छन्नः दृश्यते।

केरलं तमिल्नाटु लक्षद्वीपः इत्येतेभ्यो राज्येभ्यो पर्यावरणविभागस्य सूक्ष्मनिर्देशो दत्तः। चक्रवातस्य रूपवत्करणम् अभिलक्ष्य राज्यानां मुख्यसचिवेभ्यो भरणनियन्त्रकाय च जाग्रता निर्देशो दत्तः। अयं निर्देशः त्वरितप्रेषकद्वारैव दत्तः। सागरद्वये अपि घनीभूतस्य मेघस्य संस्थितौ एव अतीव जाग्रता सूचना दत्ता।

नारीणां गतिरीदृशी – 13-10-2018

 

नूतना समस्या –

“नारीणां गतिरीदृशी”

ഒന്നാംസ്ഥാനം

पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥

V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

शबरिमलायां स्त्रीप्रवेशविषयः, तन्त्रिपरिवारः समवायचर्चातः प्रत्यगच्छत्।

पत्तनंतिट्टा- मुख्यमन्त्रिणा पिणरायि विजयवर्येण सह  समवायचर्चातः तन्त्रिपरिवारः प्रत्यगच्छत्। सर्वोच्चन्यायालये पुनः शोधनावेदनकार्ये निर्णयानन्तरं चर्चा आयोजनीया इत्येव परिवारस्य अभिप्रायः। शबरिमला तन्त्रिवर्यः कण्ठर् मोहनर् वर्यः कार्यमिदम् आवेदयत्। सोमवासरे तन्त्रिपरिवारेण सह मुख्यमन्त्री चर्चा आयोजिता आसीत्। श्वः पुनःशोधनावेदनं दास्यतीति सूचना अस्ति।

     पूर्वं देवस्वं मन्त्रिणा साकं चर्चा निर्णीता आसीत्। पुनः मुख्यमन्त्री स्वयमेव चर्चाचालनाय उद्युक्तः अभवत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्चन्यायालयस्य निर्णयः प्रवृत्तिपथमानेतुं सर्वकारस्य प्रतिबद्धता अस्ति। मार्क्स्वादी साम्यवादी दलस्यापि अयमेवाभिप्रायः। परन्तु भक्तजनानां विरोधः समवायचर्चया परिहार्य ॆइति बुध्या चर्चा आयोजिता आसीत्।

PRASNOTHARAM – 13-10-2018

प्र

 

प्रश्नोत्तरम्।

 

 

  1. भारतस्य ४६ तमः मुख्यन्यायाधीशः कः ?(क) रञ्जन् देशाय् (ख) रञ्जन् गोगोय् (ग) रञ्जित् गोगोय्
  2. ऐक्यराष्ट्रसभायाः “चाम्प्यन्स् ओफ् दि एर्त् “( Champions Of the Earth ) पुरस्कारेण आदृतः कः ?(क) व्लाडिमिर् पुटिन् (ख) रोणाल्ड् ट्रम्प् (ग) नरेन्द्रमोदी
  3. ” सुमो गुस्ति ” कस्य राज्यस्य कायिकविनोदः भवति ? (क) जप्पान् (ख) जर्मनि (ग) इङ्लण्ट्
  4. प्रथम सन्तोष् ट्रोफी स्पर्धा कुत्र प्राचलत् ? (क) चेन्नै  (ख) कोल्कोत्ता (ग) केरलम्
  5. ” बिहु ” कस्य राज्यस्य नृत्तरूपं भवति ?(क) आस्साम् (ख) आन्ध्राप्रदेशः (ग) काश्मीरः
  6. ” आकाशवाणी ” इति नाम कः निरदिशत् ? (क) बालगङ्गाधरतिलकः (ख) बङ्किं चन्द्र चाटर्जी (ग) रवीन्द्रनाथ टागोर्
  7. ऐक्यराष्ट्रसभायाः पताकायाः वर्णः कः ? (क) रक्तवर्णः (ख) श्वेतवर्णः (ग) नीलवर्णः
  8.  ” मिस् यूणिवेऴ्स् ” (Miss Universe) स्थानं प्राप्ता प्रथम भारतीय युवती का ? (क) सुस्मिता सेन् (ख) ऐश्वर्या राय् (ग) श्रद्धा शशीधरः
  9. भारते लोकसभाङ्गं भवितुम्  अपेक्षितः वयः कति ? (क) १८  (ख)  २१  (ग)  २५
  10. भारतस्य बृहत्तमं नगरं किम् ? (क) चेन्नै  (ख) मुम्बय् (ग) कोल्कोत्ता

 

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Devavananda S sajith
  • Adwaith C S
  • Arsha Pavithran
  • Aswini K P
  • Mariya  K W
  • Harikrishnan C U

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”