Monthly Archives: September 2018

यत्नस्तु सफलो भवेत् – 29-09-2018

 

नूतना समस्या  –

“यत्नस्तु सफलो भवेत्”

ഒന്നാംസ്ഥാനം

नववाणी नवोढेव
सर्वचित्तापहारिका।
तया योfत्र समारब्धो
यत्नस्तु सफलो भवेत्।।

Vijayan V Pattambi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 29-09-2018

 

प्रश्नोत्तरम्।   

 

 

 

 

1.सः ……….आह्वयति।(क)मम  (ख ) माम्   (ग) मह्यम्

2. सा ……… पश्यति।(क)भवतीम् (ख ) भवत्या  (ग) भवत्यः

3. जननी ……….स्पृशति । (क)तस्यै (ख ) तस्याम् (ग) ताम्

4. त्वं  ………मा विस्मर। (क)तान्  (ख ) ताभ्यः   (ग) तेषु

5.  धर्मः ………रक्षति ।(क)भवान् (ख ) भवति   (ग) भवन्तम्

6. सा …….स्मरति। (क)भवत्यः  (ख ) भवतीः (ग) भवती

7. सर्वे ……… पृच्छन्ति। (क)युष्मान्  (ख ) युष्माभिः (ग) युष्माकम्

8. भवान् ……….जानाति किम् ?(क)एतस्यै (ख ) एतस्मिन्  (ग) एताम्

9. सः ………न जानाति।(क) त्वम् (ख ) तस्मिन् (ग) त्वाम्

10. के ………. पृच्छन्ति।(क) वयम्  (ख ) अस्मान्  (ग) अस्मासु

ഈയാഴ്ചയിലെ വിജയി

RANJITH V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ranjith V
  • Sangeetha C K
  • Amrutha C J
  • Anumol Sasidharan
  • Ganga P U
  • Jessy Francis
  • Adwaith C S
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः प्रगृहीतः। रक्षिपुरुषाः तस्मै द्विदिवसीयं वशगबन्धनम् आवेदयिष्यन्ति।

कोच्ची – कन्यास्त्रीपीजनकाण्डे अपराधारोपितः मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः रक्षिपुरुषैः प्रगृहीतः। दिवसत्रयं यावत् अपराधान्वेषणं कृत्वा एव तं गृहीतवन्तः। प्रग्रहानन्तरं वैद्यपरिशोधनार्थं तं तृप्पूणित्तुरा चिकित्सालयं नेष्यति। तदनन्तरं पाला न्यायमूर्तेः पुरतः तं प्रस्तोष्यति। द्विदिवसीयस्य स्ववशगबन्धनार्थं रक्षिदलं न्यायमूर्तिमावेदयिष्यति।

अन्वेषणावसरे पुरोहितस्य प्रतिकरणं निराशात्मकमासीत्। अतः अन्वेषणसंघः स्वातृप्तिं तमावेदयत्। सममेव तस्य प्रग्रहणकार्यमपि न्यवेदयत्।

वैक्कं रक्षिदल उपनेता एव प्रग्रहणकार्यं पुरोहितमावेदयत्। पञ्चाब् रक्षिगलमपि एनं वृत्तान्तं आवेदयत्। पुरोहितस्य अभिभाषकः प्रग्रहणनिवृत्यर्थं कट्वालोचनां स्वीकृतवान्।

श्रीनारायणगुरोः महासमाधेः नवतिप्रणामाः।

शिवगिरिः- एका जातिः एको धर्मः एको देवो मनुष्याणाम् इति महासन्देशं लेकाय दत्तस्य श्रीनारायणगुरुदेवस्य महासमाधिः नवतिवर्षमतीता। अस्य भागत्वेन शिवगिरिमठे ४१ दिवसात्मकानि पूजाकर्माणि आयोजयन्ति। अस्य वर्षस्य महासमाधिदिनं मण्डलमहायज्ञेन महायतिपूजया च शिवगिर्याम् आचर्यते। शुक्रवासरे आरभ्यमाणः मण्डलमहायज्ञः ओक्टोबर् ३१ दिनाङ्कं यावत् प्रचलिष्यति। महायतिपूजा तद्दिनेभविता। श्रीनारायणधर्मसंघस्य तथा श्रीनारायणधर्मपरिपालन योगस्य च संयुक्ताभिमुख्ये एव कार्यक्रमान् आयोजयति। कार्यक्रमस्य उद्घाटनं चिन्मयमिषन् केरलघटकस्य अध्यक्षः स्वामी विविक्तानन्दसरस्वतीवर्यः विधास्यति।

कन्यास्त्रियं विरुध्य विवादपरामर्शः- सामाजिकस्य पी.सी. जेर्ज् वर्यस्य कृते विषमवृतिः बलिष्ठा अभवत्।

कोट्टयम् – विवादपरामर्शाः पि.सि. जोर्ज् वर्यं विषमवृत्ते अपातयन्। मुख्यपुरोहितेन पीडिता इत्यावेदयन्तीं कन्यास्त्रियं अपमानयन् तेन कृतः परामर्श एव व्यवहारहेतुः। राष्ट्रिय वनिता आयोगस्य पुरतः आगत्य विशदीकरणं दातव्यमिति आदेशं विरुध्य उच्चन्यायालये द्विवारं समर्पितम् आवेदनं स प्रतिगृहीतवान्।

विवादपरामर्शकारणात् सप्तेम्बर् २० दिनाङ्के नवदिल्यां वनितायोगस्यास्थानमागत्य विशदीकरणं दातव्यमित्यासीत् आयोगाध्यक्षायाः निदेशः।

अयं निदेशः प्रत्यावर्तनीय इति सूचयन् पूञ्ञार् मण्डलस्य सदस्य पी.सी. जोर्ज् वर्यः उच्चन्यायालये व्यवहारं समर्पितवान्। ततः आवेदनस्य स्थायित्वं न भवेदिति न्यायालयेन सूचितम्। अतः वनिता आय़ोगस्य पुरतः विशदीकरणम् अधुना तस्य कृते अनिवार्यं भवति।

गान्धिदर्शन् पुरस्कारार्थं दलै लाम वर्यः चितः, श्रेष्ठः मुख्यमन्त्री पिणरायि विजयः।

 

तिरुवनन्तपुरम्- गान्धी ग्लोबल् फौण्टेशन् संस्थानस्य गान्धीदर्शन् अन्ताराष्ट्रपुरस्कारं दलै लामा वर्यः प्राप्तवान्। लक्षत्रयरूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। श्रेष्ठस्य मुख्यमन्त्रिणः कृते पुरस्कारं केरलमुख्यमन्त्री पिणरायि विजयः अलभत। श्रेष्ठसामाजिकपुरस्कारं केन्द्रमन्त्री अरुण् जेटली वर्यः अलभत। आत्मीयसेवापुरस्कारार्थं श्री श्री रविशङ्कर् वर्यः मार्तोमा सभा मुख्यपुरोहितः फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यश्च चितौ। मानवीय सेवापुरस्कारार्थम् आदिवासीवैद्या लक्ष्मिक्कुट्टी वर्या चिता।
स्वास्थ्यरंगस्य पुरस्कारार्थं कोट्टयं वैद्यकीयकलालयस्थः अध्यापकः टी.के. जयकुमारः पुरस्कारमलभत। प्रौद्योगिकपुरस्कारार्थं एं.ए. यूसफली, बी.आर्. षेट्टी, बी. गोविन्दश्च चिताः। मानवस्नेहपुरस्कारः यशश्शरीराय जोसफ् पुलिक्कुन्नेल् वर्याय मरणानन्तरबहुमतिरूपेण दीयते। तिरुवनन्तपुरं, नवदिल्ली, बंगलूरु इत्येतेषु नगरेषु पुरस्कारवितरणं भविता।

संस्कृतदिनाचरणं धिषणावृत्तिसम्माननं च।

इरिङ्गालक्कुटा – अस्य वर्षस्य संस्कृतदिनाचरणं श्री शङ्कराचार्यसर्वकलाशालायाः धिषणावृत्तिसम्माननं च संयुक्ततया इरिङ्गालक्कुटायां सुसम्पन्नम्। नटवरम्प् सर्वकारीयोच्चतरविद्यालये आयोजितस्य  समारोहस्य उद्घाटनं श्री शङ्कराचार्यसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः  कृतवान्। उद्घाटनभाषणे कुलपतिना प्रोक्तं यत् देशस्य पैतृकं ज्ञातुं संस्कृतपठनम् अनिवार्यं भवति। येन केनापि धर्मेण संबद्धा भाषा भवति संस्कृतमिति प्रचारणं वास्तवविरुद्धमेव। यद्यपि इदानीन्तन राजनैतिकान्तरीक्षे तादृशी भावना आभारतं वर्तते तथापि केरलेषु तादृशी नास्त्येव। दशकानि  यावत् धर्मनिरपेक्षं संस्कृतपठनपारम्पर्यं केरलराज्ये वर्तते । अनेन  सोदाहरणं प्रोक्तं  यत् धर्मभेदं वर्णभेदं च विहाय श्री पुन्नश्शेरि नीलकण्ठशर्मा महोदयस्य संस्कृतपठनकेन्द्रं, कुरियाक्कोस् महाभागेन पावरट्टीस्थले स्थापितं संस्कृतविद्यापीठं, तथा चावरा कुरियाक्कोस् पातिरिवर्येण मध्यतिरुवितांकूर् प्रदेशे स्थापिताः संस्कृतविद्यालयाः च। यत्र विश्वं भवत्येकनीडमिति भवितव्यं संस्कृतपिपठिषुणां भावना इत्यपि महानुभावेन कुलपतिना उक्तानि वचनानि समेषामूर्जदायकान्यासन्।

अनन्तरं सभायामस्यां गतवर्षे गुरुप्रिया पुरस्कारेण समादृतस्य के.टि बिजुवर्यस्य कृते समादरणं, अनौपचारिकपठनकेन्द्रे पठितृणां कृते  प्रमाणपत्रवितरणं चादयः कार्यक्रमाः प्राचलन्। श्रीमती अम्बिकादेवी, श्री नासरुद्दीन्, एम्.के मोहनः, टि.टि.के भरतन्, श्रीमती जयश्री,  श्री सुरेष् बाबू वर्याः च प्रभाषणमकुर्वन्।

दृश्यानि

कैरली चलचित्रनटः क्याप्टन् राजू दिवंगतः।

कोच्ची- सुप्रसिद्धः कैरलीचलचित्रनटः क्याप्टन् राजूवर्यः अद्य प्रातः ऐहिकं देहं तत्याज। स ६८ वयस्कः आसीत्। मस्तिष्कसम्बन्धिना आमयेन कञ्चित् कालं यावत् चिकित्सायामासीत्। मलयालचलनचित्रेषु प्रतिनायकरूपेण सहनटरूपेण च स स्वप्रतिभां प्रादर्शयत्। मलयालं, तमिल्, तेलुङ्क्, हिन्दी भाषासु ५०० अधिकेषु चलचित्रेषु स अभिनीतवान्। सैन्यसेवनानन्तरमेव स अभिनयरंगं प्राविशत्। १९८१ तमे वर्षे रक्तम् इति मलयाल चलचित्रे एव स प्रथमम् अभिनीतवान्।

फिलिप्पैन्स् राष्ट्रे मङ्घूट् चक्रवातेन ६४ जनानां मृत्युः।

होङ्कोङ्-  फिल्प्पैन्स् राष्ट्रे शनिवासरे ६४ जनानां मृत्युकारणभूतः मङ्धूट् अाख्यः चक्रवातः ह्यस्तने दक्षिणचीनं प्रति प्रस्थितः। घोरया वृष्ट्या सह मृत्पात एव फिलिप्पैन्स् प्रविश्यायां मृत्युसंख्यामवर्धयत्। चक्रवातेन दक्षिणचीनायां २४ लक्षं जनाः सुरक्षितस्थानं नीताः, ५०००० मत्स्यबन्धननौकाः प्रत्याहूताश्च।

     उत्तरफिलिप्पैस्  स्थले खनिकर्मकराणां ग्रामे एव शनिवासरे चक्रवातेन महान् नाशः सञ्जातः। गृहभंगः मृत्पातश्च बहूनां जनानां मृत्योः कारणे अभूताम्। ४५ जनाः तिरोभूताः ३३ जनाः रुग्णाश्चाभूवन्।

     दक्षिणचीनायां रक्तजाग्रतां प्राघोषयत्। गतदशकाभ्यन्तरे सञ्जातः महान् झञ्झावातः अयमिति होङ्कोङ् ओब्सर्वेट्टरी संस्थया सूचितम्। तत्र विमानयातायातं परित्यक्तमस्ति।

भीतिं त्यजतु मानव – 22-09-2018

 

नूतना समस्या –

“भीतिं त्यजतु मानव!”

ഒന്നാം സ്ഥാനം

प्रकृतीयं महाशक्ता
पञ्चभूतसमुद्भवा।
पञ्चत्वप्रापणाज्जातां
भीतिं त्यजतु मानव।।

“അഭിനന്ദനങ്ങള്‍”