Daily Archives: September 12, 2018

रूप्यकस्य मूल्यं पुनरपि अपचितम्। डोलरं प्रति रूप्यकस्य मूल्यम् अद्य ७२.९२.जातम्।

नवदिल्ली- रूप्यकस्य मूल्यं पुनरपि ऐतिहासिकायां न्यूनतायां पतति। बुधवासरे प्रातः डोलरं प्रति ७२.९२ पदव्याम् आगतम् रूप्यकाणां विनिमयमूल्यम्। विदेश-निक्षेपकाः राष्ट्रस्थविपणीतः परावर्तन्ते इत्येतदेव मूल्यशोषणस्य प्रधानं कारणम्। कुजवासरे १४५४ कोटि रूप्यकाणाम् अंशकान् ते विक्रीतवन्तः। विकस्वरविपणीतः  मुद्रापत्राणि विक्रीय अतिसुरक्षितं डोलरं प्रति निक्षेपं परिवर्तयन्ति निक्षेपकाः। एतदपि रूप्यकस्य मूल्यशोषणे कारणमस्ति।

संस्कृतदिनप्रतिज्ञा।

संस्कृतं मम जीववाणी। तस्याः समृद्धायां नानाविधायां पूर्विकसम्पत्तौ अभिमानी भवामि। संस्कृतपठनं मम विनय-आत्मगौरव-सदाचार-सामूह्यबोधादीनां सद्गुणानां विकासाय प्रभवति। वसुधैवकुटुम्पबकं, सत्यमेव जयते, सर्वे भवन्तु सुखिनः, इत्यादिभिः आप्तवचनैः राष्ट्रस्य अखण्डताम् ऐक्यं च संस्कृतभाषायां सुरक्षितमिति विवेचयामि। अहं जाति-वर्ग-स्त्री-पुरुषभेदबुद्धिं विना संस्कृतभाषापठने तथा प्रचारणे च सदा सर्वथा प्रयत्नं करोमि। स्नेहमयी माता स्वपुत्रानिव अन्यभाषा अपि आदरिष्ये। जयतु संस्कृतम्। जयतु भारतम्।