Daily Archives: September 2, 2018

विनष्टं हन्त जीवनम् – 08-09-2018

 

नूतना समस्या –

“विनष्टं हन्त जीवनम्”

ഒന്നാംസ്ഥാനം

सबलान् पाण्डवान्पञ्चान्
पतिरूपेण प्रापिता।
निरक्षिता प्रवोचत्सा
विनष्टं हन्त! जीवनम्।।

Muralidhara sharma A

“അഭിനന്ദനങ്ങള്‍”

राष्ट्रिय-शिक्षकदिनम् आघोषरहितम् आचर्यते।

तिरुवनन्तपुरम्- ऐषमं शिक्षकदिनाचरणं सेप्तमंबर् ५ दिनाङ्के बुधवासरे आधोषं विना अनन्तपुर्यां आयोजयति। प्रातः दशवादने वी.जे.टी. प्रशालायाम् आयोज्यमाने समारोहे शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः पुरस्कारवितरणं निर्वक्ष्यति। विशिष्टशिक्षकाणां कृते पुरस्कारः, विशिष्टसमितीनां कृते पुरस्कारः शिक्षकाणां साहित्यरचनायै प्रोफ. मुण्डश्शेरी पुरस्कारश्च अस्यां वेदिकायां वितरिष्यते।

प्रलयदुरन्तस्य भूमिकायां टी.टी.ऐ.-पी.पी.टी.टी.ऐ. कलोत्सवः अस्मिन् वर्षे न संचाल्यते इति सार्वजनीनशिक्षानिदेशकः अवदत्।

PRASNOTHARAM – 08-09-2018

 

प्रश्नोत्तरम्।

 

 

  1.  ——– बालकः गच्छति । (क) एकः (ख) एका (ग) एकम्
  2. वृक्षात् ——–पुष्पं पतति । (क) एकः (ख) एका (ग) एकम्
  3.  क्रीडाङ्कणे ———- महिलाः धावन्ति ।(क) त्रय़ः (ख) त्रीणि (ग) तिस्रः
  4. रात्रौ ———- शुनकाः भषन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः
  5. तस्मिन् गृहे ——– बालिके  स्तः। (क) द्वौ (ख) द्वे (ग) द्वयः
  6. जलोपप्लवसमये गृहे ———- जनाः आसन्। (क) त्रीणि (ख) त्रयः (ग) तिस्रः
  7. मम उद्याने ——— पाटलपुष्पाणि सन्ति । (क) चत्वारि (ख) चतस्रः (ग) चत्वारः
  8. सूरजस्य गृहे ——— ऋषभौ स्तः । (क) द्वौ (ख) द्वे (ग) द्वयः
  9. तस्मात् वाहनात् ——— पुस्तकानि पतन्ति । (क) त्रीणि (ख) तिस्रः (ग) त्रय़ः
  10. अध्यापकस्य हस्ते ———- लेखन्यः सन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan.D

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Geetha Natesan
  • Archana Mohan D
  • Remadevi A
  • Ramjyothis
  • Rajesh
  • Adidev C S
  • Dawn Jose

“അഭിനന്ദനങ്ങള്‍”