मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः प्रगृहीतः। रक्षिपुरुषाः तस्मै द्विदिवसीयं वशगबन्धनम् आवेदयिष्यन्ति।

कोच्ची – कन्यास्त्रीपीजनकाण्डे अपराधारोपितः मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः रक्षिपुरुषैः प्रगृहीतः। दिवसत्रयं यावत् अपराधान्वेषणं कृत्वा एव तं गृहीतवन्तः। प्रग्रहानन्तरं वैद्यपरिशोधनार्थं तं तृप्पूणित्तुरा चिकित्सालयं नेष्यति। तदनन्तरं पाला न्यायमूर्तेः पुरतः तं प्रस्तोष्यति। द्विदिवसीयस्य स्ववशगबन्धनार्थं रक्षिदलं न्यायमूर्तिमावेदयिष्यति।

अन्वेषणावसरे पुरोहितस्य प्रतिकरणं निराशात्मकमासीत्। अतः अन्वेषणसंघः स्वातृप्तिं तमावेदयत्। सममेव तस्य प्रग्रहणकार्यमपि न्यवेदयत्।

वैक्कं रक्षिदल उपनेता एव प्रग्रहणकार्यं पुरोहितमावेदयत्। पञ्चाब् रक्षिगलमपि एनं वृत्तान्तं आवेदयत्। पुरोहितस्य अभिभाषकः प्रग्रहणनिवृत्यर्थं कट्वालोचनां स्वीकृतवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *