Daily Archives: September 16, 2018

भीतिं त्यजतु मानव – 22-09-2018

 

नूतना समस्या –

“भीतिं त्यजतु मानव!”

ഒന്നാം സ്ഥാനം

प्रकृतीयं महाशक्ता
पञ्चभूतसमुद्भवा।
पञ्चत्वप्रापणाज्जातां
भीतिं त्यजतु मानव।।

“അഭിനന്ദനങ്ങള്‍”

 

केरलप्रतिरूपं पुनरपि अन्वर्थमभवत्। प्रलयानन्तरं सांक्रमिकरोगप्रतिरोधे विजयमवाप – स्वास्थ्यमन्त्री।

कोच्ची- बृहतः विपदः सहयोगप्रवर्तनेन केरलराज्यं पारमानीतमि समाश्वासे वर्तते इति केरळीय स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। निपा विषाणुबाधनात् पश्चात् प्रलयानन्तरसांक्रमिकरोगादपि आरोग्यकेरलं रक्षामवाप इत्यस्मिन् विषये सन्तुष्टास्मीति स जगाद।

केरलप्रतिरूपं पुनरपि सार्थकमभवत्। आविश्वं प्रलयदुरन्तानन्तर-सांक्रमिकरोगाणां चरिते अवगते अधिका आशङ्का जाता। परन्तु सम्यगासूत्रितेन प्रवर्तनेन सांक्रमिकरोगप्रतिरोधे वयं विजयिनः अभवाम।

रोगाणां सफलप्रतिरोधार्थं आयोजिते तत्कालीनचिकित्सालये रुग्णानां संख्या न्यूना जाता। तद्वत् सांक्रमिकरोगाणां सूचना न लब्धा। अतः नियन्त्रकप्रकोष्ठानां तत्कालीन चिकित्सालयानां च प्रवर्तनम् अवसीयते इत्यपि सा अवदत्। तथापि सेवनसन्नद्धानां भिषजां साहाय्येन प्रतिरोधप्रवर्तनानि अनुवर्तिष्यन्ते। सर्वप्रकारान् जलजन्यरोगान् नियन्त्रणविधेयानभवदित्यपि सा असूचयत्।

PRASNOTHARAM – 22-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ———–आगच्छति। (क) गृहस्य (ख) गृहात्  (ग) गृहे
  2. ते  ——–  वस्तूनि आनयन्ति। (क)आपणानि (ख) आपणेषु (ग) आपणेभ्यः
  3. पुष्पाणि ——— पतन्ति ।(क) लताः (ख) लतायाः (ग) लतायाम्
  4. सः ———- ऋणं स्वीकरोति । (क)सर्वेभ्यः (ख) सर्वेषाम् (ग) सर्वेषु
  5.  ———– बहिः विद्यालयः अस्ति । (क) ग्रामस्य (ख) ग्रामात् (ग) ग्रामे
  6.  ———–आरभ्य  कक्ष्या भविष्यति।(क) सोमवासरं (ख) सोमवासरस्य (ग) सोमवासरात्
  7.  ———- पूर्वं ग्रामः अस्ति । (क) नगरात् (ख) नगरस्य (ग) नगरे
  8.  ———परं परीक्षा भविष्यति।(क) मासस्य (ख) मासात् (ग) मासम्
  9. देवदत्तः  ———बिभेति ।(क) अध्यापकस्य (ख) अध्यापकात्  (ग) अध्यापके
  10. नदी ——– प्रवहति। (क) पर्वतात् (ख) पर्वते (ग) पर्वतस्य

ഈയാഴ്ചയിലെ വിജയി

SANGEETHA C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Sandeep K R
  • Adwaith C S
  • Sreekala M
  • Maya P R
  • Bushara V P
  • Archana Mohan D

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”