Daily Archives: September 17, 2018

कैरली चलचित्रनटः क्याप्टन् राजू दिवंगतः।

कोच्ची- सुप्रसिद्धः कैरलीचलचित्रनटः क्याप्टन् राजूवर्यः अद्य प्रातः ऐहिकं देहं तत्याज। स ६८ वयस्कः आसीत्। मस्तिष्कसम्बन्धिना आमयेन कञ्चित् कालं यावत् चिकित्सायामासीत्। मलयालचलनचित्रेषु प्रतिनायकरूपेण सहनटरूपेण च स स्वप्रतिभां प्रादर्शयत्। मलयालं, तमिल्, तेलुङ्क्, हिन्दी भाषासु ५०० अधिकेषु चलचित्रेषु स अभिनीतवान्। सैन्यसेवनानन्तरमेव स अभिनयरंगं प्राविशत्। १९८१ तमे वर्षे रक्तम् इति मलयाल चलचित्रे एव स प्रथमम् अभिनीतवान्।

फिलिप्पैन्स् राष्ट्रे मङ्घूट् चक्रवातेन ६४ जनानां मृत्युः।

होङ्कोङ्-  फिल्प्पैन्स् राष्ट्रे शनिवासरे ६४ जनानां मृत्युकारणभूतः मङ्धूट् अाख्यः चक्रवातः ह्यस्तने दक्षिणचीनं प्रति प्रस्थितः। घोरया वृष्ट्या सह मृत्पात एव फिलिप्पैन्स् प्रविश्यायां मृत्युसंख्यामवर्धयत्। चक्रवातेन दक्षिणचीनायां २४ लक्षं जनाः सुरक्षितस्थानं नीताः, ५०००० मत्स्यबन्धननौकाः प्रत्याहूताश्च।

     उत्तरफिलिप्पैस्  स्थले खनिकर्मकराणां ग्रामे एव शनिवासरे चक्रवातेन महान् नाशः सञ्जातः। गृहभंगः मृत्पातश्च बहूनां जनानां मृत्योः कारणे अभूताम्। ४५ जनाः तिरोभूताः ३३ जनाः रुग्णाश्चाभूवन्।

     दक्षिणचीनायां रक्तजाग्रतां प्राघोषयत्। गतदशकाभ्यन्तरे सञ्जातः महान् झञ्झावातः अयमिति होङ्कोङ् ओब्सर्वेट्टरी संस्थया सूचितम्। तत्र विमानयातायातं परित्यक्तमस्ति।