Daily Archives: September 9, 2018

राज्यस्तरीयं विद्यालयकलोत्सवं विहातुं सर्वकारस्य निर्णयं विरुध्य छात्रसंघटनाः।

तिरुवनन्तपुरम्- विद्यालयीयकलोत्सवं हातुं सर्वकारस्य निर्णये प्रतिषेधेन सह छात्रसंघाः रङ्गमागताः। एस्. एफ्.ऐ., के.एस्.यू. प्रभृतयः संघा एव प्रतिषेधमसूचयन्।

कलोत्सवः छात्राणामधिकार एव कलोत्सवसञ्चालनार्थं सर्वकारं निवेदयति इति एस्.एफ्.ऐ. संघः अवदत्। प्रलयदुरन्तस्य भूमिकायां कलोत्सवं संघाटयन् छात्राणां आत्मशक्तिः संवर्धनीया इति के.एस्.यु. संघश्चावदत्।

प्रलयदुरितमभिलक्ष्य सर्वान् आघोषान् विहातुं सर्वकारेण निर्णीतमासीत्। तेषु मध्ये विद्यालयीय कलोत्सवः अपि अन्तर्गतः। छात्राणां कृते कृपाङ्कादिकेषु विषयेषु विघातः सम्भवेयुः इति आशङ्कया छात्रसंघाः प्रतिषेधेनागताः।

विद्यामार्जय सत्वरम् – 15-08-2018

 

नूतना समस्या –

“विद्यामार्जय सत्वरम्”

ഒന്നാംസ്ഥാനം

സ്വാത്മശക്തിമവേക്ഷ്യാഥ
ഗുരും സംപ്രാപ്യ ധാർമ്മികം
സർവ്വലോകഹിതൈഷീ സൻ
വിദ്യാമാർജയ സത്വരം

ശങ്കരനാരായണന്‍

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 15-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अध्यापकः ——— पुस्तकानि आनयति। (क) छात्रान् (ख) छात्राः (ग) छात्रेभ्यः
  2. माता ———– उपाहारम् आनयति । (क) माम् (ख) मह्यम् (ग) मया
  3.  ——- मोदकं रोचते ।स (क) बालकाय (ख) बालकस्य (ग) बालकः
  4. तस्यै  ——- नमः । (क) जनन्यै  (ख) जननी (ग) जनन्याः
  5.  त्वं ——– वस्त्राणि क्रीणासि । (क) अस्माभिः (ख) अस्माकम् (ग) अस्मभ्यम्
  6. जनकः ——— फलानि नयति । (क) पुत्रेभ्यः (ख) पुत्रेषु  (ग) पुत्राः
  7. दुर्योधनः ——— क्रुध्यति । (क) युधिष्ठिराय (ख) युधिष्ठिरे (ग) युधिष्ठिरस्य
  8. कौरवाः ——— ईर्ष्यन्ति । (क) पाण्डवाः (ख) पाण्डवेभ्यः (ग) पाण्डवैः
  9. पूतना ————द्रुह्यति । (क) कृष्णाय (ख) कृष्णम्  (ग) कृष्णस्य
  10.  चोरः ———– असूयति । (क) सज्जनेभ्यः (ख) सज्जनैः (ग) सज्जनाः

ഈയാഴ്ചയിലെ വിജയി

SHILPA N S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SHILPA N S
  • Satvik T M
  • Archana Mohan D
  • Sangeetha
  • Ananthu P A
  • Basil K B
  • Amrutha C J

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”