Monthly Archives: August 2018

विश्ववाणिज्यसंघात् अपैष्यति इति भीषया सह रोनाल्ड् ट्रम्प् वर्यः।

न्यूयोर्क- विश्ववाणिज्यसंघटनायाः(WTO) अपैष्यति इति अमेरिक्का राष्ट्रपतिः रोनाल्ड् ट्रम्प् वर्यः भीषां प्राकटयत्। अमेरिक्कां प्रति संघस्य असमीचीनम् उपगमं प्रतिषिध्यैव तस्यायमभिप्रायः। उपगमः न परिवर्तितश्चेत् नूनं संघात् बहिरागमिष्यति इति स अवदत्।

     आगोलवाणिज्यार्थं राष्ट्राणां परस्परम् औद्योगिकसमस्या परिहारार्थं च रूपवत्कृतं भवति विश्ववाणिज्यसंघटना। परन्तु अमेरिक्कां प्रति अस्य संघस्य उपगमः न समीचीनः इति ब्लूंवर्ग् न्यूस् इति वार्तामाध्यमस्य कृते दत्ते अभिमुखे ट्रम्प् वर्यः असूचयत्।

     विश्ववाणिज्यसंघस्य समस्यापरिहारन्यायालये प्राड्विवाकानां चयनात् अमेरिक्काराष्ट्रं परावर्तितमभूत्। अनेन विविधव्यवहारेषु विधिप्रख्यापने संघः प्रयासमनुभवति।

प्रतिपरिवारं दशसहस्ररूप्यकाणाम् साहाय्यस्य वितरणम् आरब्धम्।- राज्यस्वविभागः।

तिरुवनन्तपुरम्- प्रलयदुरितबाधितानां परिवाराणां कृते प्रख्यापितं दशसहस्ररूप्यकाणां साहाय्यं वितरणं कर्तुम् आरब्धमिति राज्यस्वविभागः। पालक्काट् देशस्थानां १६०० परिवाराणां कृते धनादेशः तेेषां वित्तकोशलेखायां निक्षिप्तम्। दत्तानाम् अङ्कने पूर्तीकृते इतरेषां लेखायामपि संख्या प्राप्स्यतीति राज्यस्वविभागस्य पत्रिकायां सूचितम्।

एवं धनदानाय २४२.७३ कोटि रूप्यकाणि जिल्ला प्रशासकेभ्यः दत्तानि। चतुर्लक्षपरिमिताः जनाः आपादधनसाहाय्यं लभन्ते। अधुना ५९००० अधिकं जनाः ३०५ दुरिताश्वासशिबिरेषु वसन्ति। जले अपगते अपि भवनानि वासयोग्यानि नास्तीति कारणादेव ते शिबिरेषु वसन्ति।

लक्षाधिकाः जनाः शिबिरात् गृहं प्रतिनिवृत्ताः। लक्षपरिमितानां रूप्यकाणां नष्ट एव अनेन संवृत्तः। नष्टानां परिगणनानुसारमेव इतः परं धनसाहाय्यं विधास्यति।

सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्रविमानपत्तनं पुनःप्रवर्तनसज्जमभवत्। महाप्रलये ३०० कोटिरूप्यकाणां नष्टः।

नेडुम्बाश्शेरि- सप्ताहद्वयानन्तरं कोच्ची अन्ताराष्ट्र-विमानपत्तनं पुनःप्रवर्तनसज्जं भवति। अद्य मध्याह्नादूर्ध्वं द्विवादने आभ्यन्तर-आन्ताराष्ट्रपरिवहणव्यवस्था पुनरारभते। बंगलूरुतः आगम्यमानं इन्डिगो विमानं द्विवादने नेडुम्बाश्शेरि विमानपत्तने अवतरिष्यति। अद्य एवं ३२ विमानानां यातायातो भविष्यति।

     प्रलयकारणात् पिहिते विमानपत्तने एयर्लैन्स् कस्टंस् इमिग्रेशन् विभागानां प्रवर्तनं सोमवासरे आरब्धमासीत्। कोच्ची नैसेना आस्थानात् तात्कालिकतया प्रवृत्तं गतागतम् अद्यप्रभृति अवसितमिति अधिकृतैरुक्तम्।

     कोच्ची विमाननिलये इदम्प्रथमतया एतावन्तं कालं गतागतं स्थगितम्। महाप्रलयेऩ विमानपत्तनस्य नियन्त्रक- प्रदेशे जलोपप्लवमजायत। सहस्राधिकानां जनानां २४ होरापरिमितं अष्टदिनप्रत्नमेव अधुना सफलमभवत्। विमाननिलये आहत्य ३०० कोटिरूप्यकाणां नष्टः अजायत इति अधिकृतैरुक्तम्।

प्रलयदुरितमधिकृत्य अनुसन्धानं कर्तुं विदग्दसंघः आगच्छति।

तिरुवनन्तपुरम्- केरले संजातं प्रलयदुरितमधिकृत्य विपुलरूपेण अनुसन्धानं कर्तुं राष्ट्रिय-भौमशास्त्रानुसन्धान-केन्द्रात् वरिष्ठसंघः केरलानागच्छति। जलबन्धानाम् अनावरणेन सञ्जातान् प्रत्याघातानधिकृत्य भवेत् मुख्यं पठनम्। वृष्टिव्यापनात् पूर्वम् अनया संस्थया सूचना दत्ता आसीत्। वृष्टिः तथा जलबन्धे स्थितानां जलसञ्चयानां परिमाणमपि परिगणय्य अनुसन्धानं भविष्यति।

     एतदर्थं दशाङ्गयुक्तं संघम् अचिरेण नियोक्ष्यते। संघः आकेरलं पर्यटन् सूचनाः संचेष्यते। बृहती वृष्टिः तथा जलसञ्चयात् समायातःअप्रतीक्षितः जलपातश्च प्रलयस्य कारणमिति प्राथमिकं निगमनम्।

श्रावणविरामानन्तरं राज्यस्थेषु विद्यालयेषु अस्य मासस्य २९ तमे दिनाङ्के अध्ययनं पुनरारभ्यते।

तिरुवनन्तपुरम्- श्रावणोत्सवविरामानन्तरं राज्यस्थेषु विद्यालयेषु अध्ययनम् अस्य मासस्य २९ तमे दिनाङ्के पुनरारभ्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवदत्। प्रलयदुरितकारणात् विद्यालयाः आगस्त् १७ तमे दिनाङ्के पिहिताः आसन्।

     राज्यस्थाः उच्चतरविद्यालयाः प्रवृत्युन्मुखोच्चतर-विद्यालयाः प्राथमिक-माध्यमिक-उच्चविद्यालयाश्च २९ तमे दिनाङ्के प्रवर्तिष्यन्ते। अधुना बहुषु विद्यालयेषु दुरिताश्वासशिबिराणि प्रचलन्ति। जलप्रलयः अवसितः इत्यतः शिबिरेभ्यः जनाः स्वकीयं गृहं प्रति गच्छन्तः सन्ति। कृट्टनाट् प्रदेशे जलाप्लवः अनुवर्तते इत्यतः तत्र शिबिर प्रचालनार्थं मार्गान्तरम् आलोच्यते इति वित्तमन्त्री तोमस् ऐसेक् वर्यः अवदत्।

प्रलयजले कालटी संंस्कृतविश्वविद्यालयस्य सर्वाः प्रमाणरेखाः विनष्टाः

 कालटी – जलोपप्लवेन कालटिदेशस्थायाः श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायाः सर्वाः प्रमाणरेखाः विनष्टाः अभवन्। प्राशासनिक-प्रासादखण्डे जलाप्लावेनैव छात्राणां लब्धाङ्कपत्राणि प्रमाणपत्राणि प्रभृतीनि सर्वाणि प्रमाणानि विनष्टानि जातानि। विश्वविद्यालयस्य सर्वेषु प्रासादखण्डेषु जलोपप्लवः सञ्जातः।

     बहूनि प्रमाणानि नष्टानि इत्यतः कोटिशानां संख्यानां नष्टः अभवदिति विश्विद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः अवदत्। विश्वविद्यालयस्य निम्नप्रदेशेषु समीपस्थात् केदारादेव जलमागतम्। जलौघप्रवाहवेगात्  प्रधानप्रमाणानि प्रासादात् इतरस्थानं नेतुं समयः न लब्धः। रात्रौ जनाप्लावनपर्यन्तः जलसञ्चयः सर्वत्र व्याप्तः। छात्रावासः प्राशासनिकखण्डः तान्त्रिकखण्डः कूत्तम्पलः च जलेन पूरिताः। वाहनानि मुद्रणालयादीनि च जलाप्लावेन नष्टानि जातानि।

     तान्त्रिकविभागस्य ग्रन्थालयः पूर्णतया  निरुपयोगो जातः। विश्वविद्यालयसमुच्चये नैकोपि प्रासादः जलपूरणभिन्नः अस्ति। विनष्टाः रेखाः कथं पुनःप्राप्तुं शक्यते इत्यालोचनायामेव अधिकारिणः। विश्वविद्यालयस्य प्रवर्तनं पूर्वस्थितिं प्राप्तुं  एकमासाधिकः समयः आवश्यकः इति कुलपतिः अवदत्।

धीवराः देवसम्मिताः – 01-09-2018

 

नूतना समस्या –

“धीवराः देवसम्मिताः”

ഒന്നാംസ്ഥാനം

देवभूमिरियं सत्यम्
के सन्ति तत्र देवताः၊
प्राणरक्षां प्रकुर्वन्तः
धीवरा: देवसम्मिताः၊၊

മുഹമ്മദ് മുസ്തഫ

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 01-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भवान् कति ————- कर्म कृतवान् ? (क) दुरितक्षेत्रस्य (ख) दुरितक्षेत्रेषु  (ग) दुरितक्षेत्राणि
  2. सः ——  दुरितक्षेत्रात् आगतवान् ? (क) किम् (ख) कुत्र (ग) कदा
  3. धीवराः  धैर्येण रक्षाप्रवर्तनम् ———–। (क) अकरोत् (ख) अकुर्वन् (ग) अकुर्मः
  4. भेदभवनां विना सर्वे जनाः रक्षाप्रवर्तनेषु भागं  ———–।(क) स्वीकृतवान् (ख) स्वीकृतवत्यः  (ग) स्वीकृतवन्तः
  5. अस्मिन् वर्षे श्रावणोत्सववेलायां बहवः जनाः दुरिताश्वासकेन्द्रेषु ———-। (क) भवन्ति (ख) भवथ (ग) भवामः
  6. श्वः श्रावणपौर्णमी भविष्यति अतः संस्कृतदिनम् ————-। (क) आचरति  (ख) आचरिष्यति (ग) आचरन्ति
  7. श्वः प्रभृति अहम् एकं संस्कृतवाक्यं  ————। (क) लिखामि (ख) लिखिष्यामि (ग) लेखिष्यामि 
  8. त्वं किम् ——–? (क) अखादः (ख) अखादम् (ग) अखादत् 
  9. यूयं मम गृहे ——–। (क) वसन्तु (ख) वसत (ग) वसामः
  10. ——– संस्कृतं पठामः। (क) अहं (ख) त्वं (ग) वयं

ഈയാഴ്ചയിലെ വിജയി

ASWIN A.U.P.S MURIYAD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Abhilash A.U.P.S Muriyad
  • Aswin A.U.P.S Muriyad
  • Anandan Villupuram
  • Lakshmi P S
  • Anandhu M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केरलीयानाम् अद्य आघोषरहितः श्रावणोत्सवः

तिरुवनन्तपुरम्- प्रलयदुरितस्य मध्ये केरलीयानाम् अद्य श्रावणोत्सवः। घोरवर्षापातः अवसितः अपि मावेलिदेशे प्रलयदुरितदृश्यानि नावसितानि। पुष्पकोष्ठैरलंकरणीयीनि चत्वराणि पङ्कैः मालिन्यैश्च पूरितानि दृश्यन्ते। एकैकोपि केरलीयः स्वयं मावेलिरूपेण परिणामं प्राप्नुवन्ति दृश्यान्येव प्रलयकाले अस्माभिः दृष्टानि।

दुरिते पतितानां कृते भोज्यानि वस्त्राणि तथा सर्वाणि अवश्यवस्तूनि विधातुं केरलीयाः परस्परम्  स्पर्धन्ते स्म। सर्वकाराः कलासंघानि च आघोषं जहति स्म। सर्वे दुरिताशवासशिबिरेषु संभूय श्रावणाघोषे निरताः सन्ति। प्रलयकालः आपणमपि बाधते। कार्षिकरंगः चलचित्ररंगः च स्थगितः। एवं अमुं प्रलयकालं स्मृतिसागरे निलीय आगामिनि वर्षे श्रावणोत्सवम् सम्यगाघोषयितुं प्रतिपालयन्ति केरलीयाः

मुल्लप्पेरियार् जलबन्धे जलसञ्चय 139 पादत्वेन न्यूनीकर्तव्यम् – सर्वोच्चम्यायालयः

दिल्ली – केरलेषु सञ्जातस्य प्रलयस्य भूमिकायां मुल्लप्पेरियार् जलबन्धे जलसञ्चयः 139 पादत्वेन परिमितिः करणीया इति सर्वोच्चन्यायालयः निरदिशत्। मुल्लप्पेरियार् समीक्षणसमितेः आवेदनानुसारमेव अयमादेशः।

जलसञ्चयः इदानीन्तनावस्थातः द्वित्राः पादाः न्यूनीकर्तव्याः इति समीक्षणसमितेः आर्थना इति व्यवहारपरिगणनावसरे केन्द्रसर्वकारः सर्वोच्चन्यायालयं आवेदयत्। अस्य  पठनानन्तरं समीक्षणसमितेः निर्णयानुसारं पुरोगन्तव्यमिति न्यायालयः केरलसर्वकारं तमिल्नाटु सर्वकारं च निरदिशत्। निरणयः अयं उभाभ्यां राज्याभ्याम् अङ्गीकरणीयः परस्परसहयोगेन पुरो गन्तव्यश्चेति न्यायालयः निरदिशत्।