संस्कृतदिनाचरणं धिषणावृत्तिसम्माननं च।

इरिङ्गालक्कुटा – अस्य वर्षस्य संस्कृतदिनाचरणं श्री शङ्कराचार्यसर्वकलाशालायाः धिषणावृत्तिसम्माननं च संयुक्ततया इरिङ्गालक्कुटायां सुसम्पन्नम्। नटवरम्प् सर्वकारीयोच्चतरविद्यालये आयोजितस्य  समारोहस्य उद्घाटनं श्री शङ्कराचार्यसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः  कृतवान्। उद्घाटनभाषणे कुलपतिना प्रोक्तं यत् देशस्य पैतृकं ज्ञातुं संस्कृतपठनम् अनिवार्यं भवति। येन केनापि धर्मेण संबद्धा भाषा भवति संस्कृतमिति प्रचारणं वास्तवविरुद्धमेव। यद्यपि इदानीन्तन राजनैतिकान्तरीक्षे तादृशी भावना आभारतं वर्तते तथापि केरलेषु तादृशी नास्त्येव। दशकानि  यावत् धर्मनिरपेक्षं संस्कृतपठनपारम्पर्यं केरलराज्ये वर्तते । अनेन  सोदाहरणं प्रोक्तं  यत् धर्मभेदं वर्णभेदं च विहाय श्री पुन्नश्शेरि नीलकण्ठशर्मा महोदयस्य संस्कृतपठनकेन्द्रं, कुरियाक्कोस् महाभागेन पावरट्टीस्थले स्थापितं संस्कृतविद्यापीठं, तथा चावरा कुरियाक्कोस् पातिरिवर्येण मध्यतिरुवितांकूर् प्रदेशे स्थापिताः संस्कृतविद्यालयाः च। यत्र विश्वं भवत्येकनीडमिति भवितव्यं संस्कृतपिपठिषुणां भावना इत्यपि महानुभावेन कुलपतिना उक्तानि वचनानि समेषामूर्जदायकान्यासन्।

अनन्तरं सभायामस्यां गतवर्षे गुरुप्रिया पुरस्कारेण समादृतस्य के.टि बिजुवर्यस्य कृते समादरणं, अनौपचारिकपठनकेन्द्रे पठितृणां कृते  प्रमाणपत्रवितरणं चादयः कार्यक्रमाः प्राचलन्। श्रीमती अम्बिकादेवी, श्री नासरुद्दीन्, एम्.के मोहनः, टि.टि.के भरतन्, श्रीमती जयश्री,  श्री सुरेष् बाबू वर्याः च प्रभाषणमकुर्वन्।

दृश्यानि

Leave a Reply

Your email address will not be published. Required fields are marked *