Daily Archives: September 21, 2018

मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः प्रगृहीतः। रक्षिपुरुषाः तस्मै द्विदिवसीयं वशगबन्धनम् आवेदयिष्यन्ति।

कोच्ची – कन्यास्त्रीपीजनकाण्डे अपराधारोपितः मुख्यपुरोहितः फ्राङ्को मुलक्कल् वर्यः रक्षिपुरुषैः प्रगृहीतः। दिवसत्रयं यावत् अपराधान्वेषणं कृत्वा एव तं गृहीतवन्तः। प्रग्रहानन्तरं वैद्यपरिशोधनार्थं तं तृप्पूणित्तुरा चिकित्सालयं नेष्यति। तदनन्तरं पाला न्यायमूर्तेः पुरतः तं प्रस्तोष्यति। द्विदिवसीयस्य स्ववशगबन्धनार्थं रक्षिदलं न्यायमूर्तिमावेदयिष्यति।

अन्वेषणावसरे पुरोहितस्य प्रतिकरणं निराशात्मकमासीत्। अतः अन्वेषणसंघः स्वातृप्तिं तमावेदयत्। सममेव तस्य प्रग्रहणकार्यमपि न्यवेदयत्।

वैक्कं रक्षिदल उपनेता एव प्रग्रहणकार्यं पुरोहितमावेदयत्। पञ्चाब् रक्षिगलमपि एनं वृत्तान्तं आवेदयत्। पुरोहितस्य अभिभाषकः प्रग्रहणनिवृत्यर्थं कट्वालोचनां स्वीकृतवान्।

श्रीनारायणगुरोः महासमाधेः नवतिप्रणामाः।

शिवगिरिः- एका जातिः एको धर्मः एको देवो मनुष्याणाम् इति महासन्देशं लेकाय दत्तस्य श्रीनारायणगुरुदेवस्य महासमाधिः नवतिवर्षमतीता। अस्य भागत्वेन शिवगिरिमठे ४१ दिवसात्मकानि पूजाकर्माणि आयोजयन्ति। अस्य वर्षस्य महासमाधिदिनं मण्डलमहायज्ञेन महायतिपूजया च शिवगिर्याम् आचर्यते। शुक्रवासरे आरभ्यमाणः मण्डलमहायज्ञः ओक्टोबर् ३१ दिनाङ्कं यावत् प्रचलिष्यति। महायतिपूजा तद्दिनेभविता। श्रीनारायणधर्मसंघस्य तथा श्रीनारायणधर्मपरिपालन योगस्य च संयुक्ताभिमुख्ये एव कार्यक्रमान् आयोजयति। कार्यक्रमस्य उद्घाटनं चिन्मयमिषन् केरलघटकस्य अध्यक्षः स्वामी विविक्तानन्दसरस्वतीवर्यः विधास्यति।