Monthly Archives: June 2020
विक्टेर्स् जालाधारितकक्ष्या, द्वितीयसोपाने सोमवासरादारभ्य कक्ष्यासम्प्रेषणम्।
तिरुवनन्तपुरम्- केरलेषु छाप्राणां कृते विक्टेर्स् इति प्रणालीद्वारा आयोजातायाः जालाधारितकक्ष्यायाः द्वितीयसोपानं सोमवासरात् प्रभृति प्रचलति। कक्ष्याणां समयसारिणी निश्चितपूर्वाणि सन्ति इति शिक्षाविभागाधिकारिभिः निगदितम्। अपि ट राज्ये दूरदर्शकरहितानि 4000 गृहाणि सन्ति तेषु दिनद्वयाभ्यन्तरे दूरदर्शकं प्रापयिष्यति इति शिक्षामन्त्रालयस्य सूचना लब्धा।
अस्यां प्रणाल्यां जूण् प्रथमवारे एकैव पाठभागः सम्प्रेषितः आसीत्। अधिजालिकाध्यापनस्य प्रथमसोपाने प्रेक्षकेभ्यो महत् प्रतिकरणमपि लब्धमासीत्।
द्वितीयसोपाने अरबी उर्दू संस्कृतं कक्ष्यापि भविता। एताः जूण् 15 तः सम्प्रेषिताः भविष्यन्ति। इतरभाषाविषयाणां कैरल्यामपि विशदीकरणं भविष्यति।
कोविड्- १९, राष्ट्रे दिवसेनैकेन९९९६ जनानां कोविड् बाधा, मरणानि ३५७।
नवदिल्ली- राष्ट्रे कोरोणा विषाणुबाधितानां संख्या अनुदिनं प्रवर्धते। गते २४ होराभ्यन्तरे ९९९६ जनेषु कोविड् स्थिरीकृता। राष्ट्रे आहत्य कोविड् रोगिणां संख्या २,८६,५७६ जाता। तद्वत् गते २४ होराभ्यन्तरे ३५७ मरणान्यपि आवेदितानि।
विषाणुबाधितानां संख्या इतःपर्यन्तं जातेषु उन्नता भवति गते २४ होराभ्यन्तरे। ह्यस्तने मृतान् ३५७ जनान् अन्तर्भूय आहत्य मृतानां संख्या ८१०२ जाता।
राष्ट्रे रेगमुक्तानां संख्या चिकित्सायां वर्तमानानपेक्ष्य अघिका इत्येतत् कार्यं आश्वासदायकमस्ति। अधुना १३७४४८ जनाः चिकित्सायां वर्तन्ते परं १४१०२९ जनाः रोगान्मुक्तिमवापुः।
महाराष्ट्रे रोगबाधिताः आहत्य ९४०४१ जाता,३४३८ जनाः मृताश्च । गुजरात्, दिल्लीप्रभृतिषु राज्येषु रुग्णानां मृतानां च संख्या अनुदिनं प्रवर्धमाना दृश्यन्ते।
छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।
छात्राणाम् अध्ययनेन सह वृत्तिरपि। परियोजना अस्मिन् वर्षे प्रवर्तते।
तिरुवनन्तपुरम्- इतः परं छात्राः अध्ययनेन सह कर्म कर्तुमपि प्रभवन्ति। केरलसर्वकारस्य परियोजना-अध्ययनेन सार्धं वृत्तिरपि- अस्मिन् वर्षे प्रवृत्तिपथमानीयते। परियोजनायाः रूपरेखा सज्जा भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। पूर्वं मुख्यमन्त्रिणा छात्रसंघनेतृभिःसाकं कृतायां चर्चायां रूपवत्कृतः आशय एव याथार्थ्यं प्राप्नोति।
२००४ तमे वर्षे विश्वविद्यालयानुदानायोगेन घोषिता इयं पद्धतिः प्रमुखैः विश्वविद्यालयैः प्रवृत्तिपथमानीता। २०१७ तमे वर्षे अखिल भारतीय तान्त्रिकशिक्षा समित्या तथा अखिलभारतीय तान्त्रिकशिक्षा प्रबन्धनसमित्या च एषा परियोजना घोषिता आसीत्। अत एव मुख्यमन्त्रिणः निर्देशानुसारं केरलराज्ये अपि पद्धतेः क्रियान्वयनाय सन्नाहः आरब्धः। अस्याः पद्धतेः रीतिः, छात्रेभ्यो दीयमानं वेतनम् इत्यादिविषये सर्वकारनिर्णयः भविता।
पद्धतेरस्याः क्रियन्वयनायैव कलाशालासु अध्ययनवेला प्रातः ८.३० तः मध्याह्ने १.३० पर्यन्तं परिवर्तयितुं निर्णयो जातः।
राष्ट्रे विद्यालयानां कलालयानां च अपावरणम् आगस्त् १५ दिनाङ्कानन्तरं भवेदिति मन्त्री रमेॆश् पोख्रियाल् वर्यः।
नवदिल्ली- कोरोणा विषाणोः भूमिकायां सम्पूर्णपिधानस्यायोजनेन पिहितानां विद्यालयानां कलालयानां च अपावरणम् तत्र अध्यापनं च अस्मिन् वर्षे आगस्त् १५ दिनाङ्कादूर्ध्वं भवेत् इति केन्द्रीय-मानवसंसाधनमन्त्री रमेश् पोख्रियाल् वर्यः असूचयत्। जूण् तृतीये दिनाङ्के बी.बी.सी. नालिकायाः कृते दत्ते साक्षात्कारे एव मन्त्रिणः एषा सूचना अस्ति।
सम्पूर्णपिधानस्य भागत्वेन मार्च् १६ दिनाङ्के एव राष्ट्रे विद्यालयाः कलालयाश्च पिहिताः अभवन्। ३३ कोटिपरिमिताः छात्राः एव विद्यालयानाम् अपावरणं प्रतीक्ष्य तिष्ठन्ति।
आगस्त १५ दिनाङ्कात् प्रागेव सी.बी.एस्.ई. ऐ.सी.एस्.ई. परीक्षाणां चालनं भविता। जूलै प्रथमतः पञ्चदशदिनाङ्कं यावत् सी.बी.एस्.इ. तथा जूलै प्रथमतः द्वादशपर्यन्तं ऐ.सी.एस्.ई. परीक्षा च आयोजयिॆष्यति। परीक्षाफलप्रख्यापनमपि विद्यालयप्रारम्भात् पूर्वमेव भवेत्।
परिस्थितिचिन्तनम्। – विजयन् वि. पट्टाम्बि।
विश्वं सनातनं प्रोक्तं सर्वप्राणिप्रचोदकम्।
वृक्षसस्यलतादीनामास्थानं वर्णमोहनम्।।
कीटानां मानवानाञ्च पशूनां पक्षिणां तथा।
वासस्थानमेवैतत् समत्वेन प्रकल्पितम्।।
मानवश्च प्रवृद्धो∫थ क्रमशः स्वार्थतत्परः।
सर्वत्र वर्तमानानां जीविनां घातको∫भवत्।।
वायुं हन्ति जलं हन्ति भूमिं हन्ति तथा पुनः।
निर्दोषान् जीविनो हन्ति कष्टं तस्य कुचेष्टितम्।।
अहङ्कारमदोन्मत्तैश्चाधर्मे रतिमाश्रितैः।
मातृभूता धरा रम्या हता तैः स्वार्थपूर्तये।।
यदस्तु कर्म तस्यापि फलं नूनं भविष्यति।
विषाणुभीतिरूपेण चाग्निपातः समागतः।।
जनाश्च भीतिमापन्नाः चिन्ताग्रस्ताश्च निश्चलाः।
पटबद्धमुखा जाताः हन्त! कर्मफलं किमु? ।।
परिस्थितिदिने चास्मिन् चिन्तां कुरुत मानवाः।
समाजस्य च सर्वस्य करणीया सुसंस्थितिः।।
परिस्थितिस्तु विज्ञेया परितः स्थितिरेव नः।
समेषां प्राणिजालानामावासभरिता च सा।।
वृक्षाणां रोपणं कार्यं कार्यं नित्यञ्च पालनम्।
श्रुतं किं नु महद्वाक्यं दशपुत्रसमो द्रुमः।।
दत्वा भोज्यं तथा रक्षां स्नेहं तेषु विधाय च।
प्राणिनः परिपाल्यन्तां सर्वे सन्तु निरामयाः।।
शुभचिन्तां भजाम्यहम् (भागः १३५) – 13-06-2020
EPISODE – 135
नूतना समस्या –
“शुभचिन्तां भजाम्यहम्”
ഒന്നാംസ്ഥാനം
“സർവ്വദാ സ്നേഹസമ്പന്നാം
ഗുരുഭക്തിസമന്വിതാം
അന്യോന്യാശ്രയശീലാം ച
ശുഭ ചിന്താം ഭജാമ്യഹം”
Harigovindan Namboothiri
“അഭിനന്ദനങ്ങള്”
कोविड् प्रतिरोधकं वानरेषु परीक्षितुम् अनुमतिः।
पूणे- वानरेषु कोविड् प्रतिरोधकं परीक्षितुं पूणे विषाण्वनुसन्धानसंस्थानाय अनुमतिः लब्धा। महाराष्ट्र वनविभाग एव अस्मिन् विषये संस्थानाय अनुमतिमदात्। अतः एतदर्थं त्रिंशत् वानरान् वनात् गृहीतुं संस्था निरणयत्।
पूणास्थात् वदगाव् वनादेव वानरान् गृहीष्यति। त्रिचतुरवयस्कान् वानरानेव परीक्षणार्थमुपयुज्यन्ते।
पूर्वम् अमेरिकायां राष्ट्रिय स्वास्थ्य संस्थाने, ब्रिट्टने ओक्स्फोर्ड् विश्वविद्यालये च वानरेषु कोविड् परीक्षणं कृकमासीत्। परन्तु परीक्षणसमये एतेषु विषाणुबाधा सञ्जाता इत्यावेदितम्।
PRASNOTHARAM (भागः १३५) – 13-06-2020
EPISODE- 135
प्रश्नोत्तरम्।
- “पुराणमित्येव न साधु सर्वं,न चापि काव्यं नवमित्यवद्यम्”।एतत् कस्मिन् काव्ये अन्तर्भवति ? (क) मालविकाग्निमित्रम् (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
- अधोदत्तेषु प्रकरणं लिखत ? (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मालतीमाधवम्
- नाट्यशास्त्रस्य रचयिता कः ? (क) गौतमः (ख) भरतमुनिः (ग) कौटिल्यः
- भासस्य कति नाटकानि उपलब्धानि ? (क) १३ (ख) १४ (ग) १५
- भासस्य रामकथाश्रयानि नाटकानि कति सन्ति ? (क) १ (ख) २ (ग) ३
- दूतवाक्यं नाटकस्य आधारग्रन्थः कः? (क) रामायणम् (ख) लोककथा (ग) महाभारतम्
- एतेषु महाभारताश्रयनाटकं चित्वा लिखत ? (क) मध्यमव्यायोगः (ख) दरिद्रचारुदत्तम् (ग) अभिषेकनाटकम्
- प्रतिज्ञायौगन्धरायणं नाटके कति अङ्काः सन्ति ? (क) ३ (ख) ४ (ग) ५
- स्वप्नावासवदत्तं नाटके कति अङ्काः सन्ति ? (क) ६ (ख) ५ (ग) ४
- स्वप्नावासवदत्ते नायकः कः ? (क) अग्निमित्रः (ख) चारुदत्तः (ग) उदयनः
ഈയാഴ്ചയിലെ വിജയി
DAWN JOSE
“അഭിനന്ദനങ്ങള്”
संस्कृताध्यापकसंघस्य नेतृत्वे जालाधारितकक्ष्या
तिरुवनन्तपुरम्- केरल-संस्कृताध्यापक-फेडरेशन् इति शिक्षकसंघस्य नेतृत्वे संस्कृतकक्ष्यायाः परिपालनाय जालाधारिककक्ष्या प्रवृत्तिपथमानीता। प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं प्रत्येककक्ष्यायाः विशदांशः www.kstfedu.org इति जालपुटे उपलभ्यते।
जालपुटे पाठपुस्तकानि, जालाधारितकक्ष्या, अधिकविस्तरांशः, अनुबन्धप्रवर्तनानि, प्रवृत्तिपुटानि, अभ्यासपुस्तकानि, चित्राणि, चलनचित्राणि, चोद्यावलिश्च क्रमशः वर्तन्ते। छात्राणां इच्छानुसारं कक्ष्यां चेतुमवकाशः अत्र वर्तते।













