Daily Archives: June 21, 2020

अद्य अन्ताराष्ट्र-योगदिवसः, विश्वस्य मूर्ध्नि योगः।

तिरुवनन्तपुरम्- सूर्यः स्वकीयं तेजः पूर्णतया प्रकाशयन् दक्षिणध्रुवं प्रति प्रयाणमारभमाणः दिवसः भवति जूण्-२१। उत्तरध्रुवे दिनस्य अधिकं दैर्घ्यमस्ति अस्मिन् दिवसे। २०१५ वर्षादारभ्य अयं दिवसः अन्ताराष्ट्र योगदिवसत्वेन आचर्यते। भारतेन विश्वाय दत्तं महत् योगदानमस्ति येगशास्त्रम्। अस्य कृते आगोलसमाजस्य अङ्गीकाररूपेण परिकल्पयितुं शक्यते ऐक्यराष्ट्रसभायाः सामान्याधिवेशने स्वीकृतः निर्णयः।

२०१४ सेप्तम्बर् २७ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐक्यराष्ट्रसभायाः सामान्याधिवेशने समर्पितः निर्देशः २०१४ डिसम्बर् ११ दिनाङ्के आयोजिते अधिवेशने अङ्गीकृतो/भवत्। १९३ अङ्गयुक्तायां सभायां १७५ अङ्गानाम् अनुमतिः अस्मै निर्णयाय अभवदिति सर्वदा अङ्कनीयं कार्यमस्ति।

व्यक्तीनाम् आत्मीयप्रगतिरेव योगस्य परमलक्ष्यम्। तथापि शारिरिकेभ्य मानसिकेभ्यश्च क्लेशेभ्य मुक्तिरपि योगद्वारा अवाप्तुं शक्यते इति पतञ्जलिमहर्षिणा प्रतिपादितम्। श्रेष्ठा आरोग्यप्रदानशैलिरूपेणैव एेक्यराष्ट्रसभा योगशास्त्रं समुपगच्छति।

PRASNOTHARAM (भागः १३७) – 27-06-2020

EPISODE – 137

 

 

प्रश्नोत्तरम्।

 

 

 

  1. अभिज्ञानशाकुन्तलस्य कर्ता कः? (क) कालिदासः  (ख) भासः   (ग) भवभूतिः
  2. अधोदत्तेषु शकुन्तलायाः सखी का ? (क) गौतमी  (ख) मालविका  (ग) अनसूया
  3. का शकुन्तलया साकं दुष्यन्तराजधानीम् अगच्छत् ? (क) प्रियंवदा  (ख) गौतमी   (ग) अनसूया 
  4. अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः  (ख) वसन्तकः  (ग) मैत्रेयः
  5. दुष्यन्तेन परित्यक्ता शकुन्तला कस्याश्रमे अवसत्  ? (क) गौतमस्य  (ख) मारीचस्य  (ग) वसिष्ठस्य
  6. अभिज्ञानशाकुन्तले सर्वप्रधानः अङ्कः कः ? (क) ३   (ख) ४   (ग) ५
  7. शकुन्तलायाः अङ्गुलीयकं कुत्र अपतत् ? (क) शचीतीर्थे  (ख) प्रभासतीर्थे   (ग) आश्रमे
  8. शकुन्तलायाः पुत्रः कः ? (क) श्वेतकेतुः  (ख) आरुणिः   (ग) सर्वदमनः
  9. “यास्यत्यद्य शकुन्तलेति हृदयम् ” कस्य वचनमिदम् ? (क) कण्वस्य  (ख) शार्ङ्गरवस्य  (ग) शारद्वतस्य
  10.  ” स्मरिष्यति त्वाम् न स बोधितोSपि सन् ” कस्य शापवचनमिदम् ? (क) दुष्यन्तस्य  (ख) दुर्वाससः  (ग) मारीचस्य

ഈയാഴ്ചയിലെ വിജയി

SUCHITHRA S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Suchithra S
  • Sanika P S
  • Nima Davis
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”