Daily Archives: June 13, 2020

विक्टेर्स् जालाधारितकक्ष्या, द्वितीयसोपाने सोमवासरादारभ्य कक्ष्यासम्प्रेषणम्।

तिरुवनन्तपुरम्- केरलेषु छाप्राणां कृते विक्टेर्स् इति प्रणालीद्वारा आयोजातायाः जालाधारितकक्ष्यायाः द्वितीयसोपानं सोमवासरात् प्रभृति प्रचलति। कक्ष्याणां समयसारिणी निश्चितपूर्वाणि सन्ति इति शिक्षाविभागाधिकारिभिः निगदितम्। अपि ट राज्ये दूरदर्शकरहितानि 4000 गृहाणि सन्ति तेषु दिनद्वयाभ्यन्तरे दूरदर्शकं प्रापयिष्यति इति शिक्षामन्त्रालयस्य सूचना लब्धा।

        अस्यां प्रणाल्यां जूण् प्रथमवारे एकैव पाठभागः सम्प्रेषितः आसीत्। अधिजालिकाध्यापनस्य प्रथमसोपाने प्रेक्षकेभ्यो महत् प्रतिकरणमपि लब्धमासीत्।

     द्वितीयसोपाने अरबी उर्दू संस्कृतं कक्ष्यापि भविता। एताः जूण् 15 तः सम्प्रेषिताः भविष्यन्ति। इतरभाषाविषयाणां   कैरल्यामपि विशदीकरणं भविष्यति।