Daily Archives: June 7, 2020

कोविड् प्रतिरोधकं वानरेषु परीक्षितुम् अनुमतिः।

पूणे- वानरेषु कोविड् प्रतिरोधकं परीक्षितुं पूणे विषाण्वनुसन्धानसंस्थानाय अनुमतिः लब्धा। महाराष्ट्र वनविभाग एव अस्मिन् विषये संस्थानाय अनुमतिमदात्। अतः एतदर्थं त्रिंशत् वानरान् वनात् गृहीतुं संस्था निरणयत्।

पूणास्थात् वदगाव् वनादेव वानरान् गृहीष्यति। त्रिचतुरवयस्कान् वानरानेव परीक्षणार्थमुपयुज्यन्ते।

पूर्वम् अमेरिकायां राष्ट्रिय स्वास्थ्य संस्थाने, ब्रिट्टने ओक्स्फोर्ड् विश्वविद्यालये च वानरेषु कोविड् परीक्षणं कृकमासीत्। परन्तु परीक्षणसमये एतेषु विषाणुबाधा सञ्जाता इत्यावेदितम्।

PRASNOTHARAM (भागः १३५) – 13-06-2020

EPISODE- 135

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “पुराणमित्येव न साधु सर्वं,न चापि काव्यं नवमित्यवद्यम्”।एतत् कस्मिन् काव्ये अन्तर्भवति ? (क) मालविकाग्निमित्रम्  (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
  2. अधोदत्तेषु प्रकरणं लिखत ? (क) मुद्राराक्षसम्  (ख) वेणीसंहारम्  (ग) मालतीमाधवम्
  3. नाट्यशास्त्रस्य रचयिता कः ? (क) गौतमः  (ख) भरतमुनिः  (ग) कौटिल्यः
  4. भासस्य कति नाटकानि उपलब्धानि ? (क) १३  (ख) १४  (ग) १५
  5. भासस्य रामकथाश्रयानि नाटकानि कति सन्ति  ? (क) १   (ख) २  (ग)  ३
  6. दूतवाक्यं नाटकस्य आधारग्रन्थः कः? (क) रामायणम्  (ख) लोककथा  (ग) महाभारतम् 
  7. एतेषु महाभारताश्रयनाटकं चित्वा लिखत ? (क) मध्यमव्यायोगः  (ख) दरिद्रचारुदत्तम्  (ग) अभिषेकनाटकम्
  8. प्रतिज्ञायौगन्धरायणं नाटके कति अङ्काः सन्ति ? (क) ३  (ख)  ४  (ग) ५
  9. स्वप्नावासवदत्तं नाटके कति अङ्काः सन्ति ? (क) ६  (ख) ५  (ग) ४
  10. स्वप्नावासवदत्ते नायकः कः ? (क) अग्निमित्रः  (ख) चारुदत्तः   (ग) उदयनः

 ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”