Monthly Archives: May 2020

PRASNOTHARAM (भागः १३४) – 06-06-2020

EPISODE – 134

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रद्युम्नः कस्य पुत्रः भवति ? (क) श्रीकृष्णस्य  (ख) बलरामस्य  (ग) ययातेः
  2.  ——– मुनिः परीक्षित्त् महाराजं शशाप । (क) शमीक  (ख) शृङ्गी (ग) अगस्त्य
  3. परीक्षित्त् महाराजस्य अन्त्यं केन सर्पेण अभवत् ? (क) तक्षकेन   (ख) वासुकिना  (ग) कृष्णचूडेन
  4. शकुन्तला दुष्यन्तयोः कथा कस्मिन् पुराणे वर्तते ? (क) नारद (ख) वायु (ग) पद्म
  5. विष्णुपुराणस्य श्रोता कः ? (क) मैत्रेयः  (ख) याज्ञवल्क्यः  (ग) परीक्षित्
  6. विष्णुपुराणस्य वक्ता कः ? (क) व्यासः  (ख) पराशरः (ग) शुकः
  7. व्याकरणं,शास्त्रम् , आयुर्वेदः,ज्योतिषम् इत्यादयः कस्मिन् पुराणे विद्यन्ते ? (क) भागवत (ख) अग्नि  (ग) ब्रह्म
  8. आदित्यहृदयस्तोत्रं कस्मिन् पुराणे भवति ? (क) भविष्य  (ख) भागवत  (ग) कूर्म
  9. पुराणेषु बृहत्तमं पुराणं किम् ? (क) भागवत (ख) स्कन्ध  (ग) पद्म
  10. स्कन्ध पुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००

ഈയാഴ്ചയിലെ വിജയി

RAMGOPAL V M

“അഭിനന്ദനങ്ങള്‍”

 

 

Last date: 06-06-2020

एम्.पी. वीरेन्द्रकुमार् वर्यः निर्यातः।

कोषिक्कोट्- समाजवादी दलस्य वरिष्ठः नेता, चिन्तकः, ग्रन्थकारः, सांस्कृतिकरंगे लब्धप्रतिष्ठः, राज्यसभासदस्यश्च एम्.पी. वीरेन्द्रकुमार् वर्यः दिवंगतः। गुरुवासरे रात्रौ ११.३० वादने कोषिक्कोट् देशे आसीदस्य अन्त्यम्। हृदयाघात एव मृत्युकारणम्। स ८४ वयस्कः आसात्।

बहुकालं यावत् जनतादलस्य राज्यस्तरीयाध्यक्षपदवीम् अयमलञ्चकार। कोषिक्कोट् मण्डलात् लोकसभासदस्यत्वेन जितः अयं केन्द्रियमन्त्रिपदवीमपि निरवहत्। केरलीय विधानसभायां १९८७ तमे वर्षे अयं सदस्यत्वेन चितः तदानीं वनं विभागस्य मन्त्री अपि आसीत्।

१९३६ जूलै २२ दिनाङ्के वयलाट् मण्डलस्थे कल्पट्टा देशे भूजातः अयं तत्र प्राथमिकशिक्षासमाप्त्यनन्तरं कोषिक्कोट् सामूतिरिकलालयात् स्नातकपरीक्षामुत्तीर्णः अभवत्। ततः मदिराशि विश्वविद्यालयात् तत्त्वशास्त्रे स्नातकोत्तरबिरुदमवाप्य अमेरिक्का सिन्सिनाट्टी विश्वविद्यालयात् एम्.बी.ए. बिरुदमपि सम्पादितवान्।

अनन्तरं समाजवादप्रस्थाने समाकृष्टः अयं तत्र लब्धप्रतिष्ठः अभवत्। तस्य वामपक्षीयं मनः बहूनां राजनैतिकघटनानां निदानमभवत्। १९७९ तमे वर्षे मातृभूमी कैरलीदैनिक्याः प्रबन्धकसम्पादकपदव्याम् अयं नियुक्तः। तत्रापि शोभायमानं प्रवर्तनम् अनेन कृतम्।

अनेन बहवः साहित्यग्रन्थाः विरचिताः। हैमवतभूविल् इति सञ्चारसाहित्यकृतिः नितरां प्रसिद्धा जाता। १९९१ तः २०१४ पर्यन्तं बहवः साहित्यपुरस्काराः अनेन प्राप्ताः। अस्य प्रभाषणं साहित्य सांस्कृतिकमण्डले प्रसिद्धं भवति।

अस्य भौतिकदेहस्य संस्कारकर्म शुक्रवासरे कल्पट्टा देशे भविष्यति।

कस्मिन्नपि विद्यालये अध्ययनशुल्कं न प्रवर्धयेत्। अध्ययनरीतिः क्रमीकरणीया- मुख्यमन्त्री।

तिरुवनन्तपुरम्- अस्मिन् साहचर्ये राज्ये कोsपि विद्यालयः शुल्कवर्धनाय न यतताम् इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। अस्मिन् विपत्काले छात्रान् रक्षाकर्तृृन् च दुष्करावस्थायां मा पातयेत् इत्यपि वार्ताहरमेलने स अवदत्।

नूतने साहचर्ये तदनुसारेण पछनरीतिः क्रमीकरणीया। एतत्कर्म एव शिक्षामण्डले अवश्यकरणीयम् भवति। निजीयविद्यालयेष्वपि एषा रीतिः अनुवर्तनीया।

वृत्तिनष्टेन आयस्य न्यूनता अस्ति। तदानीं जनानाम् साहाय्यम् अवश्यं करणीयम्। तेषां शिरसि लग्नस्य भारस्य लघूकरणमेव अस्माकं लक्ष्यं भवेत्। एतस्मिन्नवसरे शुल्कप्रवर्धनादिषु कर्मसु विद्यालयाधिकारिणां व्यापारः न प्रोत्साहनीयः।

दिल्ली तुग्लाक्काबादे आवासश्रेण्यां महती अग्निबाधा, १५०० कुटीराणि दग्धानि।

नवदिल्ली- तुग्लक्काबादस्थायाम् आवासश्रेण्यां सोमवासरे रात्रौ सञ्जातायाम् अग्निबाधायां १५०० परिमितानि कुटीराणि दग्धानि अभवन्। अर्धरात्रौ १२.५० वादने एव अग्निबाधा सञ्जाता।

२८ अग्निशमनोपकरणानि उपयुज्य हाराः परिमितं परिश्रमं कृत्वा प्रातः ३.४० वादने एव अग्निबाधा नियन्त्रणाधीता अभवत्। तत्र वसन्तः जनाः निद्रां कुर्वाणाः आसन्। झटित्येव आरक्षिणः अग्निशमनदलीयाश्च सर्वान् तान् ततः निरकासयन्।

१५०० कुटीराणां नाशेन एकरात्रावधिकेन कालेन सहस्रपरिमिताः जनाः आवासरहिताः अभवन्। कोपि मृत्युं प्रापेति आवेदितम्। दिल्लि सर्वकारः नष्टानां वस्तुनां गणनां कुर्वन्नस्ति।

भीतिर्नैव भविष्यति (भागः १३३) – 30-05-2020

EPISODE – 133

नूतना समस्या-

“भीतिर्नैव भविष्यति”

ഒന്നാംസ്ഥാനം

“പ്രജാക്ഷേമേഷു സക്തേഷു
ശാസകേഷു, തഥാ ഗുരൗ
വിജ്ഞാനവാരിധൗ തുല്യം
ഭീതിർനൈവ ഭവിഷ്യതി”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १३३) – 30-05-2020

EPISODE – 133

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “विश्वसृष्टेरितिहासः पुराणम् ” इति कस्य वचनं भवति ? (क) आदिशङ्कराचार्यस्य  (ख) मधुसूदनसरस्वत्याः  (ग) दयानन्दसरस्वत्याः
  2. पुराणानां गणनामध्ये “भद्वयम् ”  इति व्यवहृते पुराणे के ? (क) भागवती – भगवती (ख) भविष्य – भूत   (ग) भविष्य – भागवत
  3. अधोदत्तेषु अकारारम्भनामयुक्तं महापुराणं किम् ?(क) अग्निपुराणम्  (ख) अगस्त्यपुराणम्  (ग) अनन्तपुराणम्
  4. भागवतपुराणे कति स्कन्धाः सन्ति ? (क) ११  (ख) १२   (ग) १३
  5. भागवतपुराणे श्लोकसंख्या का ? (क) १८०००  (ख) २००००  (ग) २४०००
  6. भागवतपुराणे श्रीकृष्णस्य रासलीला कस्मिन् स्कन्धे वर्णितमस्ति ? (क) अष्टमे   (ख) नवमे   (ग) दशमे
  7. ” विद्यावतां भागवते परीक्षा “केन सम्बद्धमिदं वाक्यम् ? (क) भागवतपुराणेन   (ख) भगवद्गीतया  (ग) मार्कण्डेयपुराणेन
  8. भागवतपुराणानुसारं कपिलमुनिः कस्य अवतारः भवति ? (क) शिवस्य  (ख) विष्णोः  (ग) सूर्यस्य
  9. श्रीमद्भागवतपुराणस्य वक्ता कः ? (क) शुकमुनिः  (ख) अगस्त्यः  (ग) पराशरः
  10. श्रीमद्भागवतपुराणस्य श्रोता कः ? (क) जनमेजयः  (ख) युधिष्ठिरः  (ग) परीक्षित्

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreesha Vinod
  • Omana Padmanabhan
  • Amrutha C J

चन्द्रमण्डले कुजमण्डले च मानवं प्रेषयितुं नासा सन्नह्यति। अनुसन्धानार्थं जनान् मार्गयति

वाषिङ्टण्- चन्द्रे कुजे च अनुसन्धानं कर्तुं नासा जनान् मार्गयति। अष्टमासावधिकम् एकान्ते वासयन्नेव नासा एतेषु अनुसन्धानं करोति। रष्यायां सज्जीकृते एकान्तवासकेन्द्रे अष्टमासं वासयन्नेव पठनं करोति।

मोस्को नगरे सज्जीक्रियमाणे एकान्तवासकेन्द्रे कुजग्रहसमानं साहचर्यं सज्जीकरिष्यति। अपि च विविधेभ्यः राष्ट्रेभ्यः अागतानेवात्र प्रवेशयति।

आङ्गल-रष्यन् भाषासु प्रवीणाः ३० – ५५ वयःपरिमिताः एं.एस्.सी. पि.एच्.डी. बिरुदधारिण एव योग्याः भवन्ति।

पाकिस्ताने कराच्ची समीपे विमानापघातः।

इस्लामाबाद्- पाकिस्ताने लाहोर् नगरात् कराच्चीं गच्छत् विमानं ९१ यात्रिकैः सप्तकर्मकरैः च साकं कराच्ची विमानपत्तनसमीपे भङ्क्त्वा न्यपतत्। पाकिस्तान् इन्टर्नाषणल् एयर्लैन्स् संस्थायाः ए ३२० विमानमेव पतितम्।

लाहोर् तः कराच्चीं आगच्छत् विमानं कराच्ची विमानपत्तने अवतरणात् ईषन्निमेषात् प्रागेव अपघाते पतितम्। विमानपत्तनस्य समीपे जिन्ना गार्डन् इति जनवासकेन्द्रे एव विमानं पतितम्। समीपस्थेभ्य प्रासादेभ्यः विमानावशिष्टेभ्यः च धूमपटलानि उद्गच्छन्ति द्रष्टुं शक्यन्ते। अपघाकमधिकृत्य अधिकानि विवरणानि अधुना न लभ्यन्ते।

कोविड् प्रतिरोधे केरलीयप्रतिरूपम्- बी.बी.सी. प्रणाल्याम् अतिथिरूपेण स्वास्थ्यमन्त्री के.के. शैलजा

तिरुवनन्तपुरम्- कोविड् प्रतिरोधे केरलेन आर्जितं श्रेष्ठत्वं बी.बी.सी. प्रणाल्या सह अभ्युपेत्य स्वास्थ्यमन्त्री के.के. शैलजावर्या अभाषत। सोमवासरे रात्रौ नववादने बी.बी.सी वेर्लड् मध्ये अतिथिरूपेण मन्त्रिणी आगता। पञ्चनिमेषपर्यन्तं साक्षात्कारं तिरुवनन्तपुरात् सततं सम्प्रेषणमकरोत्।

चीनायां वुहाने यदा रुग्णाः आवेदिताः तदैव केरलराज्ये अपि नियन्त्रणशृङ्खलामुद्घाट्य सज्जता आयोजिता। ततः रोगनिर्णयाय उपकरणानि सज्जीकृतानि। बहिर्देशादागम्यमानान् निरीक्षितुं विमानपत्तने नौकानिस्थाने वीथ्यां च सौविध्यानि सज्जीकृतानि इति मन्त्रिणी अवदत्।

रोगलक्षणानि प्रकटितान् जनान् विशेषनिरीक्षणे अवासयत्। स्रवपरिशोधनानन्तरं रोगे स्थिरीकृते तान् चिकित्सालयं प्रावेशयत्। एषा एव रीतिः अत्र आयोजिता इति सा अवदत्।

कथं शान्तिर्भविष्यति (भागः १३२०) – 23-05-2020

EPISODE – 132

नूतना समस्या –

“कथं शान्तिर्भविष्यति”

ഒന്നാംസ്ഥാനം

ധനം കാമം മദം മദ്യം
വേഷം തോഷം വ്യഥാ ഭയം
ഏഷു സർവ്വേഷു സക്താനാം
കഥം ശാന്തിർഭവിഷ്യതി ?

Narayanan N

“അഭിനന്ദനങ്ങള്‍”