Daily Archives: June 28, 2020

प्रतीघातो भयानकः (भागः १३८) – 04-07-2020

EPISODE – 138

नूतना समस्या –

“प्रतीघातो भयानकः”

ഒന്നാംസ്ഥാനം

“പ്രതിരോധേSതീവ ശ്രദ്ധാ ചേത്
കൊറോണാവ്യാപനം നഹി
അശ്രദ്ധാ പ്രത്യുതശ്ചേത്തു
പ്രതീഘാതോ ഭയാനക:”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

विश्वेस्मिन् कोविड् रोगिणां संख्या एककोटिपरिमिता जाता।

वाषिङ्टण्- विश्वेस्मिन् कोरोणा विषाणुजन्या महामारी एककोटिपरिमितान् जनान् रोगिणः अकरोत्। पञ्चलक्षाधिकानां जनानां जीवहानिरपि रोगेणानेन जाता। विश्वे कोविड् व्याधिना ग्रस्ते १८४ दिने अतीते एव रोगबाधितानां संख्या एककोटिपरा जाता। एतावत्पर्यन्तं विषाणुव्यापनस्य वृद्धिरेव जायते न तु क्षयः इति विश्व-स्वास्थ्य-संस्थायाः सूचना।

चीनादेशस्य वुहान् मत्स्य-मांसापणात् उद्भूय आविश्वं जनान् परिभ्रान्तान् कुर्वन् अयं विषाणुः १८५ राष्ट्राणि अभिव्याप्य तिष्ठति।

अमेरिकायामेव रोगबाधितानां तथा मृतानां च संख्या अधिका दृश्यते। तत्र पञ्चविंशति लक्षं जनाः रोगबाधिताः १.२८ लक्षं जनाः मृताश्च सन्ति। द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। तत्र १३.१५ लक्षं रोगिणः तेषु ५७१०३ जनाः मृताश्च।

रोगिणां संख्यासु तृतीयस्थाने रष्या चतुर्थस्थाने भारतं चास्ति। भारते ५.२ लक्षं जनेषु कोविड् स्थिरीकृता। १५००० जनाः मृताश्च सन्ति। दैनंदिनरोगिणां संख्यासु भारतं रष्याम् अतिक्रामति।

PRASNOTHARAM (भागः १३८) – 04-07-2020

EPISODE – 138

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विक्रमोर्वशीयं केन विरचितं नाटकं भवति ? (क) भासेन   (ख) कालिदासेन  (ग) शूद्रकेन
  2. विक्रमोर्वशीयनाटके कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग)  ७
  3. विक्रमोर्वशीयनाटके नायकः कः ?  (क) विक्रमादित्यः   (ख) चन्द्रगुप्तः  (ग) पुरूरवस्
  4. मालविकाग्निमित्रं नाटके विदूषकः कः?  (क) गौतमः   (ख) माढऴ्यः  (ग) मैत्रेयः 
  5. मालविकाग्निमित्रं नाटके कति अङ्काः सन्ति? (क) ४   (ख) ५   (ग) ६
  6. मालविकाग्निमित्रं नाटके अग्निमित्रस्य प्रधानमहिषी का ? (क) धारिणी   (ख) इरावती   (ग) कौशिकी
  7. अग्निमित्रस्य प्रेमभाजी का ? (क) मालविका   (ख) मदनिका  (ग) वसन्तसेना
  8. मृच्छकटिकस्य कर्ता कः  ?  (क) विशाखदत्तः   (ख) भासः   (ग) शूद्रकः
  9. मृच्छकटिके कति अङ्काः सन्ति ? (क) ८  (ख) ९   (ग) १०
  10. मृच्छकटिके चारुदत्तस्य पुत्रः कः ?  (क) वसुमित्रः  (ख) रोहसेनः  (ग) संवाहकः

ഈയാഴ്ചയിലെ വിജയി

ADITYA T

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Suchithra S
  • Sreya K
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”