परिस्थितिचिन्तनम्। – विजयन् वि. पट्टाम्बि।
विश्वं सनातनं प्रोक्तं सर्वप्राणिप्रचोदकम्।
वृक्षसस्यलतादीनामास्थानं वर्णमोहनम्।।
कीटानां मानवानाञ्च पशूनां पक्षिणां तथा।
वासस्थानमेवैतत् समत्वेन प्रकल्पितम्।।
मानवश्च प्रवृद्धो∫थ क्रमशः स्वार्थतत्परः।
सर्वत्र वर्तमानानां जीविनां घातको∫भवत्।।
वायुं हन्ति जलं हन्ति भूमिं हन्ति तथा पुनः।
निर्दोषान् जीविनो हन्ति कष्टं तस्य कुचेष्टितम्।।
अहङ्कारमदोन्मत्तैश्चाधर्मे रतिमाश्रितैः।
मातृभूता धरा रम्या हता तैः स्वार्थपूर्तये।।
यदस्तु कर्म तस्यापि फलं नूनं भविष्यति।
विषाणुभीतिरूपेण चाग्निपातः समागतः।।
जनाश्च भीतिमापन्नाः चिन्ताग्रस्ताश्च निश्चलाः।
पटबद्धमुखा जाताः हन्त! कर्मफलं किमु? ।।
परिस्थितिदिने चास्मिन् चिन्तां कुरुत मानवाः।
समाजस्य च सर्वस्य करणीया सुसंस्थितिः।।
परिस्थितिस्तु विज्ञेया परितः स्थितिरेव नः।
समेषां प्राणिजालानामावासभरिता च सा।।
वृक्षाणां रोपणं कार्यं कार्यं नित्यञ्च पालनम्।
श्रुतं किं नु महद्वाक्यं दशपुत्रसमो द्रुमः।।
दत्वा भोज्यं तथा रक्षां स्नेहं तेषु विधाय च।
प्राणिनः परिपाल्यन्तां सर्वे सन्तु निरामयाः।।
Leave a Reply