Daily Archives: June 3, 2020

सद्यस्ककक्ष्यापरिचयः एकसप्ताहपर्यन्तम् अनुवर्तते।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयीयछात्राणां कृते आयोजितायाः अधिजालिककक्ष्यायाः परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् अनुवर्तिष्यते। मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते मन्त्रिमण्डलाधिवेशने एवायं निर्णयः। परिचयप्रवर्तनान्तरे दोषाणां परिहारः भवेत्। एतासां कक्ष्याणां पुनःसम्प्रेषणमपि भविता।

जूण् प्रथमे दिनाङ्के आरब्धा कक्ष्या एकसप्ताहपर्यन्तं परिचयरूपेण भवेदिति पूर्वमेव निश्चितमासीत्। राज्ये द्विलक्षाधिकानां छात्राणां सद्यस्कसेवासौविध्यं नास्तीति अवगते तादृशदोषाणां परिहाराय परिचयप्रवर्तनम् एकसप्ताहावधिकं कालम् आयामितुं निर्णयो जातः।

अस्मिन् काले आयोजितायाः कक्ष्यायाः पुनःसम्प्रेषणमपि भविष्यति। कक्ष्या कस्यापि कृते अप्राप्या न स्यादिति बुध्या एव पुनःसम्प्रेषणम्। सौविध्यराहित्यकारणात् राज्ये एका छात्रा आत्माहूतिं कृतवती। अस्मिन् साहचर्ये एव एष निर्णयः स्वीकृतः।