Monthly Archives: March 2020

PRASNOTHARAM (भागः १२३) – 21-03-2020

EPISODE – 123

 

प्रश्नोत्तरम्।

 

 

 

  1. परोपकाराय फलन्ति ——–। (क) वृक्षाः  (ख) गावः  (ग) नद्यः
  2. अन्नात् भवन्ति ——-। (क) पर्जन्यः (ख) कर्माणि  (ग) भूतानि
  3. “अयोमयपुरुषः” इति विख्यातः भारतीयः कः ? (क) महात्मागान्धी (ख) सर्दार् वल्लभाई पट्टेल्   (ग) स्वामी विवेकानन्दः
  4. केरलेषु बृहत्तमा जिल्ला का ? (क) पालक्काट्  (ख) तृश्शिवपेरूर्  (ग) तिरुवनन्तपुरम्
  5. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यं भवति ?  (क) भरतस्य  (ख) आरक्षकदलस्य (ग) दूरदर्शनस्य
  6. केरलकलामण्डलस्य स्थापकः कः ? (क) वयलार् रामवर्मा (ख) वल्लत्तोल् नारायणमेनोन्  (ग) कुमारनाशान् 
  7. अन्ताराष्ट्र आरोग्यदिनं कदा भवति ?  (क) एप्रिल् ७   (ख) मार्च ७   (ग) जूण् ७
  8. ” व्यये कृते वर्धते ” किम् ?  (क) धनम् (ख) आभरणम्  (ग) विद्याधनम्
  9. अधोदत्तेभ्यः पुल्लिङ्गशब्दम् चित्वा लिखतु । (क) मातरः  (ख) वृक्षाः  (ग) वनिताः 
  10. युधिष्ठिरस्य माता का ? (क) कुन्ती (ख) माद्री (ग) गान्धारी

ഈയാഴ്ചയിലെ വിജയി

SAVITHA C C

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Savitha C C
  • Sathi M
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

कविः भाषागवेषकश्च श्रीमान् पुतुश्शेरि रामचन्द्रन् निर्यातः अभवत्।

तिरुवनन्तपुरम्- कैरलीकाव्यलोके विख्यातः कविः तथा भाषागवेषकश्च डो. पुतुश्शेरि रामचन्द्रन् अन्तरितः। स इतिहासकारः अध्यापकश्चासीत्। वार्धक्यसहजेन आमयेन पीडितः अयं ९१ वयस्कः गतमासद्वयं यावत् चिकित्सायामासीत्।

१९४०-५० कालपरिधौ कवितां तथा कलां प्रति व्यापृतायाः वामपक्षचिन्ताधारायाः वक्ता आसीदयम्। वयलार् रामवर्मा ओ.एन्.वी. कुरुप्, पी. भास्करन्, तिरुनेल्लूर् करुणाकरन् इत्यादिभिः साकं काव्यश्रेण्यां संस्थितस्य पुतुश्शेरि वर्यस्य निर्याणेन एकस्य कवितायुगस्य अन्त्यमभवत्।

आलप्पुष जिल्लायां मावेलिक्करा तालूक् स्थले १९२८ तमे वर्षे सेप्तम्बर् २३ तमे दिनाङ्के अयं भूजातः अभवत्। १९८८ तमे वर्षे केरल विश्वविद्यालये प्राचार्यपदवीतः विरतः। नैके पुरस्काराः अनेन स्वायत्तीकृताः।

कोरोणा- अमेरिकायां राष्ट्रिय-आपातस्थितिः घोषिता।

वाषिङ्टण्- कोरोणा विषाणुबाधां प्रतिरोद्धुं प्रबलप्रयत्नेन सह अमेरिकाराष्ट्रम्। कोरोणाभीतिमभ्लक्ष्य राष्ट्रे आपातस्थितिः घोषिता। शुक्रवासरे सायं त्रिवादने वैट् हउस् स्थले आयोजिते पत्रकारमेलने राष्ट्राध्यक्षः डोनाल्ट् ट्रम्प् वर्यः आपातस्थितिं घोषितवान्।

कोरोणा प्रतिरोधप्रवर्तनाय तेषां निधेः ५०००० कोटि अमेरिका डोलर् दास्यतीति ट्रम्प् अवदत्। द्रुतप्रवर्तनकेन्द्राणि शीघ्रं स्थापयितुं स सर्वाणि राज्यानि आह्वयत्। इतः परम् अष्टसप्ताहपर्यन्तः कालः निर्णायकः, वयं एनं विषाणुमधिकृत्य पठिष्यामः, तम् अतिजीविष्यामश्चेति ट्रम्प् अवदत्।

अमेरिकायां जनानाम् आवश्यकं परिचरणं लब्धुं विधातान् दूरीकृत्य यतिष्ये इत्यपि ट्रम्प् वर्यः न्यगादीत्।

नववाणी संस्कृत ह्रस्वचलच्चित्रोत्सवः २०२०

11-03-2020 ന് സംസ്കൃതഭാഷയുടെ ചരിത്രത്തിലാദ്യമായി ഇരിങ്ങാലക്കുടയില്‍ നവവാണി സംസ്കൃത ഹ്രസ്വചലച്ചിത്രോത്സവം 2020 സംഘടിപ്പിച്ചു.

പ്രദര്‍ശനയോഗ്യതനേടിയ ചലച്ചിത്രങ്ങള്‍

 

ചടങ്ങില്‍നിന്നുള്ള ചില ദൃശ്യങ്ങള്‍

 

कोरोणा-यथार्थसूचनां ज्ञातुं सर्वकारस्य मोबैल् आप्।

तिरुवनन्तपुरम्- कोरोणा विषाणुव्यापनमनुबन्ध्य व्याजवार्तानाम् असत्यसूचनानां च प्रचारणं निरोद्धुं केरलसर्वकारस्य पृथक् जङ्गमदूरवाणीसम्प्रयोगः(मोबै ल् आप्)। GoK Direct इति नामयुक्तं सम्प्रयोगं मुख्यमन्त्री पिणरायि विजयः अनावृतवान्।

कोविड्-१९ इति रोगमधिकृत्य आधिकारिकां सूचनां अनेन सम्प्रयोगेण लभते।

निरीक्षणे स्थिताः, यात्रिणः, विदेशादागताः च सामान्यजनाश्च एनं सम्प्रयोगं उपयोक्तुं पारयन्ति।

https://qkopy.xyz/prdkerala

विद्याभ्यासः विमर्शनात्मकविज्ञाननिर्मितये भवेत्।

तृशूर्- विमर्शनात्मकविज्ञाननिर्मितिरेव शिक्षाद्वारा साधनीया इति प्रभाषकः साहित्यविमर्शकश्च सुनिल् पी. इलयिटं वर्यः अवदत्।

केवलात् विज्ञानात् व्याख्यानाच्च ऋते विमर्शनात्मिका विज्ञाननिर्मितिरेव प्रचालनीया। अद्य तु तान्त्रिकवैभवनिर्मितिरेव केवलं प्रचलति इत्यपि स अवदत्।

तृशूर् जानपद-शिक्षा-प्रशिक्षणालये(डयट्) केरलीयशिक्षा- इतिहासः वर्तमानश्च इति विषये विचारसत्रम् उद्घाटयन् भाषमाणः आसीत् सः। केन्द्रीयविश्वविद्यालये सहप्राचार्यः डो. बिजू केरलीयशिक्षा- साघ्यताः सङ्केताश्च इति विषयं प्रास्तौत्। उच्चतरशिक्षाविभागस्य भूतपूर्वनिदेशिका सी.पी. चित्रा माध्यस्था आसीत्। समारोहे अस्मिन् चित्रकलाध्यापकाः समादृताः।

प्रांशुपालः डो. टी.के. अब्बासलिः स्वागतं तथा डो. प्रमोद् के. नारात् कृतज्ञतां च व्याहरत्।

कोविड्-१९ प्रकरणे राज्ये अतीव जाग्रता। सप्तमकक्ष्यापर्यन्तं परीक्षा त्यक्ता

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः पश्चात्तले राज्ये अतीव जाग्रतानिर्देशः दत्तः। सप्तमकक्ष्यापर्यन्तं छात्राणां परीक्षा त्यक्ता। तेषां कक्ष्याः मार्च् ३१ पर्यन्तं पिहिताः भवेयुः। अन्याः परीक्षाः अतीव जाग्रतया प्रचलिष्यन्ति। अद्यतने मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः। अङ्गण्वीटीतः सप्तमकक्ष्यापर्यन्तं विरामः सी.बी.एस्.सी. प्रभृतीनां विद्यालयानामपि बाधकः भवति।

कलालयेषु परीक्षा यथाक्रमं भविष्यति, तत्र कक्ष्या न प्रचलिष्यति। उत्सवाः आघोषाश्च त्याज्या।

केरलेषु षट् जनानामेव कोविड्-१९ बाधा स्थिरीकृता। अस्मिन् साहचर्ये एवायं निर्णयः।

एस्.एस्.एल्.सी.परीक्षायाः श्वः आरम्भः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. टी.एच्.एस्.एल्.सी, ए.एच्.एस्.एल्.सी. परीक्षाः कुजवासरे आरभते। २९४५ परीक्षाकेन्द्राणि एव एतदर्थं सज्जीकृतानि। सर्वकारीणविद्यालयस्थाः १३८४५७ छात्राः धनादत्तविद्यालयस्थाः २५३५३९ छात्राः निजीयविद्यालयस्थाः ३०४५४ छात्राः च परीक्षार्थिनः सन्ति।

मलप्पुरं शिक्षामण्डले एव अधिकाः छात्राः परीक्षां लिखन्ति। तत्र २६८६९ छात्राः परीक्षां लिखन्ति। आलप्पुषा कुट्टनाट् विद्याभ्यासमण्डले एव न्यूनतमाः छात्राः पञ्जीकृताः सन्ति। तत्र केवलं २१०७ छात्राः एव परीक्षार्थिनः सन्ति।
परीक्षार्थिभ्यो नववाण्याः शुभकामनाः।

कोरोणा विषाणुबाधा, व्याजवार्ताप्रसारितान् त्रीन् विरुध्य व्यवहारः।

तिरुवनन्तपुरम्- कोविड् इति कोरोणा विषाणुबाधायाः पश्चात्तले सामाजिकमाध्यमद्वारा व्याजवार्तां प्रसारितान् राज्ये त्रीन् जनान् विरुध्य व्यवहारः पञ्जीकृतः। एरणाकुलं सेन्ट्रल् आरक्षिकेन्द्रे द्वौ तृशूर् कुन्नंकुलं आरक्षिकेन्द्रे एकः च व्यवहाराः एवं पञ्जीकृताः।

कोरोणा इति विषाणुः नास्ति, सर्वकारः वृथा प्रश्नान् सृजति इति व्याजवार्ताप्रसारितवान् जेकब् वटक्कञ्चेरि इति कश्चन जनः अपराधी इति निर्णीय व्यवहारः स्वीकृतः।

समत्वं सौख्यकारणम् (भागः १२२) – 14-03-2020

EPISODE – 122

नूतना समस्या –

“समत्वं सौख्यकारणम्”

ഒന്നാംസ്ഥാനം

വാതപിത്തകഫാനാം ച
ന്യൂനാധിക്യേ തു രോഗതാ
ത്രയാണാമപി ദോഷാണാം
സമത്വം സൗഖ്യകാരണം

ഹരിഗോവിന്ദ: