कविः भाषागवेषकश्च श्रीमान् पुतुश्शेरि रामचन्द्रन् निर्यातः अभवत्।

तिरुवनन्तपुरम्- कैरलीकाव्यलोके विख्यातः कविः तथा भाषागवेषकश्च डो. पुतुश्शेरि रामचन्द्रन् अन्तरितः। स इतिहासकारः अध्यापकश्चासीत्। वार्धक्यसहजेन आमयेन पीडितः अयं ९१ वयस्कः गतमासद्वयं यावत् चिकित्सायामासीत्।

१९४०-५० कालपरिधौ कवितां तथा कलां प्रति व्यापृतायाः वामपक्षचिन्ताधारायाः वक्ता आसीदयम्। वयलार् रामवर्मा ओ.एन्.वी. कुरुप्, पी. भास्करन्, तिरुनेल्लूर् करुणाकरन् इत्यादिभिः साकं काव्यश्रेण्यां संस्थितस्य पुतुश्शेरि वर्यस्य निर्याणेन एकस्य कवितायुगस्य अन्त्यमभवत्।

आलप्पुष जिल्लायां मावेलिक्करा तालूक् स्थले १९२८ तमे वर्षे सेप्तम्बर् २३ तमे दिनाङ्के अयं भूजातः अभवत्। १९८८ तमे वर्षे केरल विश्वविद्यालये प्राचार्यपदवीतः विरतः। नैके पुरस्काराः अनेन स्वायत्तीकृताः।

Leave a Reply

Your email address will not be published. Required fields are marked *