Monthly Archives: March 2020

स्त्रीणां पूजनाय उद्घोषयति, सममेव ताः निन्दति।- मुख्यमन्त्री।

तिरुवनन्तपुरम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति वारं वारम् उद्घोषयन्नपि स्त्रीणां प्रति निन्दावचनं ताः अधः कृताः कर्तुं यत्नः च अनुदिनं प्रवर्धते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। अन्ताराष्ट्रवनितादिवसस्य राज्यस्तरीयम् कार्यक्रमम् उद्घाटयन् भाषमाण आसीत् मुख्यमन्त्री। वनितारत्नपुरस्कारानपि अस्मिन् अधिवेशने स समार्पयत्।

बालिकानां प्रति अतिक्रमं निरोद्धुं विद्यालयेषु उपदेशसभा आयोजनीया। छात्राणां दुरनुभवान् अध्यापकाना् पुरतः आवेदयितुं सौविध्यं भवेत्। अध्यापकाः स्वयमेव मार्गदर्शकाः भवेयुः इत्यपि स अवदत्।

अस्मिन्नधिवेशने आध्यक्ष्यं विधास्यन् स्वास्थ्य-वनिताक्षेममन्त्री के.के. शैलजा न्यगादीत् यत् मानवविरुद्धान् दुराचारान् तथा अन्धविश्वासान् च त्यक्त्वा स्त्रियः शास्त्रावबोधं प्रवर्धेरन् इति।

PRASNOTHARAM (भागः १२२) – 14-03-2020

EPISODE – 122

 

प्रश्नोत्तरम्।

 

 

 

  1. त्रैलोक्ये दीपकः ——–। (क) चन्द्रः  (ख) धर्मः  (ग) सूर्यः
  2. जननी जन्मभूमिश्च स्वर्गादपि ———-। (क) बलीयसी (ख) महीयसी  (ग) गरीयसी
  3. भगवद्गीता ——— अन्तर्भवति । (क) भीष्मपर्वणि  (ख) वनपर्वणि (ग) आदिपर्वणि
  4. आदिकाव्यम्  ———–। (क) रामायणम्  (ख) महाभारतम् (ग) पञ्चतन्त्रम्
  5. विद्या ददाति  ——-। (क) भयम् (ख) विनयम्  (ग) विश्वासम्
  6. पुराणानाम् कर्ता ——-।(क) वाल्मीकिः  (ख) वेदव्यासः  (ग) कालिदासः
  7. विष्णुशर्मणा विरचितः ग्रन्थः ——। (क) पञ्चतन्त्रम्   (ख) अष्टाध्यायी  (ग) रामायणम्
  8. माहेश्वरसूत्राणि ———।(क) १३   (ख)१४   (ग) १५
  9. पञ्चमहाकाव्येषु एकं लिखत। (क) श्रीकृष्णविलासकाव्यम्  (ख) रघुवंशम् (ग) नारायणीयम् 
  10. भारवेः——–। (क) अर्थगौरवम् (ख) उपमा  (ग) पदलालित्यम् 

ഈയാഴ്ചയിലെ വിജയി

SREEHARI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREEHARI M R
  • Maya P R
  • Sreesha Vinod
  • Adidev C S
  • Anandhu P C
  • Divyachithran N V

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मातृभूमिः सीड् विशिष्ट-हरितविद्यालय-पुरस्कारः करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय।

कोषिक्कोट्- २०१९-२० विद्यालयवर्षस्य मातृभूमिः सीड् पुरस्काराः घोषिताः। कोल्लं जिल्लायां करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय विशिष्टहरितविद्यालय पुरस्कारः। कण्णूर् जिल्लायां एट्टुकुटुक्क धनादत्त-माध्यमिकविद्यालयः द्वितीयस्थानमाप्तः। तृशूर् जिल्लायां तृत्तल्लूर् माध्यमिकविद्यालयः तृतीयस्थानमाप्तः।

प्रथमस्थानाय एकलक्षं रूप्यकाणि द्वितीयस्थानाय ७५००० रूप्यकाणि तथा तृतीयस्थानाय ५०००० रूप्यकाणि चषकं प्रमाणपत्रं च पुरस्कारे अन्तर्भवति।

कोरोणा विषाणुबाधा- ऐक्य अरब् राष्ट्रे विद्यालयानाम् एकमासावधिकः विरामः घोषितः।

दुबाय्- कोरोणाप्रतिरोधार्थं मार्च् मासस्य अष्टमदिनादारभ्य एकमासपर्यन्तम् ऐक्य अरब् राष्ट्रे विद्यालयानां विरामः घोषितः। सर्वकारीय निजीय रङ्गस्थानां विद्यालयानाम् उन्नतविद्यालयानां च विरामः बाधकः भवति।

छात्राणां सुरक्षादृढीकरणार्थं प्रतिरोध-निवारणप्रवर्तनानां भागत्वेनैव अयमुद्यमः। विरामे विदूरपठनसौविद्यार्थम् उद्यते मन्त्रालयः।

राष्ट्रियतले कोरोणा विषाणुव्यापनं न्यूनीकर्तुमेव विरामः। अस्य भागत्वेन कक्ष्याप्रकोष्ठाः विद्यालययानानि विद्यालयवातावरणम् इत्यादीनि अणुविमुक्तं कर्तुं निर्दिष्टः। राष्ट्रेस्मिन् षट् जनाः विषाणुबाधिताः इत्यावेदनमस्ति।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् रजतजयन्तीसमारोहः मार्च् पञ्चमे दिनाङ्के आरभ्स्यते।

तिरुवनन्तपुरम्- केरलेषु विद्यालयीयशिक्षायाः सारथिभुता राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् इति संस्था रजतजयन्तीसमारेहाय सन्नह्यति। एकवर्षपरिमितः समारोहः मार्च् मासस्य पञ्चमे दिनाङ्के समारभ्स्यते इति संस्थायाः निदेशकः डो. जे. प्रसाद् वर्यः वार्ताहरसम्मेलने व्याहरत्।

पाठ्यपद्धतिः पाठ्यपुस्तकानि, पठनोपकरणानि, अध्यापकसाहाय्यसामग्र्यश्च अनया संस्थया समायोज्य शिक्षामण्डलस्य प्रबलीकरणाय अनवरतं यतमाना विद्यते। अपि च अध्यापकप्रशिक्षणं, अनुस्यूतशिक्षणं, अनौपचारिकशिक्षणं च स्वकीयं दायित्वमेवेति बुद्ध्या प्रवर्तमाना संस्था राष्ट्रे सविशेषश्रद्धामावहति। केरलीयशिक्षामण्डलस्य अक्कादमिककेन्द्रमपि वर्तके एस्.सी.इ.आर्.टी. संस्था।

रजतजयन्तीमभिलक्ष्य अस्याः संस्थायाः इतिहासं प्रवर्तनानि च विवृण्वन् कश्चन प्रलेखः सज्जीक्रियते। विद्यालयेषु आयोजितानां नूतनमातृकाप्रवर्तनानां प्रदर्शनमपि समायोक्ष्यते।

रजतजयन्तीसमारोहस्य उद्घाटनं गुरुवासरे सायं ३.३० वादने केरलीय शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यते। तदानीं शिक्षकपरिवर्तनवर्गस्य उद्घाटनं मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः निर्वक्ष्यति। पुस्तकानां प्रकाशनं नगरपालः के. श्रीकुमार् वर्यश्च निर्वक्ष्यति इति निदेशकः असूचयत्।

केरलीयशिक्षामण्डले बृहत् परिवर्तनमेव सञ्जायते- मुख्यमन्त्री।

तिरुवनन्तपुरम्- राज्ये शिक्षामण्डले बृहत् परिवर्तनमेव सम्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। सङ्गणकशाला कक्ष्याग्रन्थशाला इत्यादिभिः कक्ष्याप्रकोष्ठाः अान्ताराष्ट्रश्रेष्ठतामावहन्ति। तिरुवनन्तपुरं जिलापञ्चायत्तेन आयोजितायां सर्गवायन सम्पूर्णवायन इति पद्धत्यां सम्पूर्ण कक्ष्याग्रन्थशालाप्रख्यापनं निर्वहन् भाषमाणः आसीत् मुख्यमन्त्री।

पठनार्थं प्रोत्साहनमेव सर्वकारस्य उद्धेश्यम्। सम्पूर्णकक्ष्याग्रन्थशालायाः भागत्वेन लब्धानि पुस्तकानि अधिकृत्य ज्ञातुं छात्राः प्रभवेयुः। अध्यापकैः पाठपुस्तकैश्च प्रदीयमानं ज्ञानमेव प्रधानम्।

मुद्रितग्रन्थानां पठनेन सहैव अङ्कीयपठनमपि अधुना प्रवर्तते। एतेषां सुविधायै कक्ष्याप्रकोष्ठाः एव अधुना अलम्। सम्पूर्णपठनपद्धत्यर्थं पञ्चलक्षं पुस्तकानि सञ्चेतु निर्णीतं परं अष्टलक्षं पुस्तकानि लब्धानि। शिक्षाक्षेत्रे गुणपराणि कार्याणि आयोजयितुं जानपदानां साहाय्यं कियदस्तीति अनेन ज्ञायते इत्यपि मुख्यमन्त्री अवदत्।

मेलनं सुखदायकम् (भागः १२१) – 07-03-2020

EPISODE – 121

नूतना समस्या –

“मेलनं सुखदायकम्”

ഒന്നാംസ്ഥാനം

നീലാംബരേ നിശീഥിന്യാം
സമന്താദിന്ദുമണ്ഡലേ
താരാണാമുദിതാനാംതു
മേളനം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

संस्कृतभाषा भृशं जनकीया कर्तव्या- शिक्षामन्त्री रवीन्द्रनाथः।

आलुव – संस्कृतभाषा इतोऽ पि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।
‘केरल संस्कृताध्यापक फेडरेषन्’ इति संघस्य राज्यस्तरीये अधिवेशने शैक्षिकसङ्गोष्ठेः उद्‌घाटनं विधाय भाषमाणः आसीत् सः।
कार्यक्रमे छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च।
विधानसभा सामाजिकः अन्वर् सादत्त् वर्यः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान् I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि. रतिः, सि. पि. सनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणम् अकुर्वन्।

कोरोणा विषाणुः विश्वराष्ट्राणि न त्यजति। वाषिङ्टण् नगरे आपातस्थितिः घोषिता। आशङ्कायाः अवकाशो नास्तीति ट्रम्प्।

वाषिङ्टण्- विश्वराष्ट्राणि भीत्यामाप्लाव्य कोरोणा विषाणुः अमेरिकायामपि दृष्टा। तत्र अणुबाधया प्रथमा मृत्युः आवेदिता। तदनन्तरम् अमेरिकाराजधानीनगरे वाषिङ् टणे आपातस्थितिः घोषिता। वाषिङ् टणे किङ् कोण्टीस्थले वसन् ५० वयस्कः पुरुष एव मृत इति अमेरिका स्वास्थ्यमन्त्रालयम् असूचयत्। अमेरिकायां २२ जनेषु विषाणुबाधा दृष्टा इति डोणाल्ट् ट्रम्प् वर्यः अवदत्।

कोविड् ९ विषाणुबाधया एकस्य मृत्योरनन्तरम् अमेरिकायां प्रयाणनिरोधोपि आयोजितः। प्रयाणनिरोधः इरान् ,इट्टली, दक्षिणकोरिया इत्येतानि राष्ट्राणि प्रत्यक्षतया बाधते इति अमेरिकायाः आवेदनम्। कोरोणाबाधा स्थिरीकृतयोः इट्टली दक्षिणकोरियाराष्ट्रयोः अमेरिकानागरिकाः यात्रां न कुर्युः इति सूचना दत्ता। चीनातः आगतेभ्यः अमेरिकायां पूर्वमेव निरोधः आसीत्।

एतस्मिन्नन्तरे व्रिट्टन् राष्ट्रमपि कोरोणाभीत्यामस्ति। निरीक्षणस्थेषु विंशतितमे पुरुषे अणुबाधा स्थिरीकृता। एतावत्पर्यन्तं विश्वे कोरोणाबाधया २९३३ जनाः मृताः ८५७००अधिकाः जनाः विषाणुबाधिताश्च। विषाणोः प्रभवकेन्द्रे चीनाराष्ट्रे विषाणुबाधामृत्युः २८३५ जाता।

PRASNOTHARAM (भागः १२१) – 07-03-2020

EPISODE – 121

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वं चित्रं ——-। (क) पश्यति  (ख) पश्यसि  (ग) पश्यामि
  2. अहम् आपणं ——-। (क) गच्छति (ख) गच्छसि (ग) गच्छामि  
  3. रेष्मा गानं ——। (क) गायति  (ख) गायसि   (ग) गायामि 
  4. बालः अश्वात् ——-। (क) पतन्ति  (ख) पतति  (ग) पतामि
  5. गीता कन्दुकेन ——-। (क) क्रीडति  (ख)  क्रीडसि (ग) क्रीडामि
  6. युवां किं ——-। (क) कुरुतः  (ख) कुर्वः  (ग) कुरुथः
  7. आवां नगरं ——। (क) गच्छावः  (ख) गच्छथः (ग) गच्छतः
  8. यूयं कदा  ——-। (क) आगच्छन्ति (ख) आगच्छथ  (ग) आगच्छामः
  9. वयं क्षीरं ——। (क) पिबामः  (ख) पिबन्ति  (ग) पिबथ
  10. छात्राः  उद्याने  ——-। (क) क्रीडथ  (ख) क्रीडन्ति (ग) क्रीडामः 

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • GREESHMA FRANCIS
  • Adidev C S
  • Divyachithran N V
  • Dawn Jose
  • Shalabha Devan
  • Sumi Wilson

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”