Daily Archives: March 22, 2020

सम्पूर्णपिधानाय आदेशो न दत्तः- मुख्यमन्त्री।

तिरुवनन्तपुरम्- केरलेषु सप्तमण्डलानि सम्पूर्णतया पिधास्यन्ति इति वार्ता अवास्तवा इति मुख्यमन्त्री पिणरायि विजयन् अवदत्। एषु सप्तस्वपि मण्डलेषु नूतनतया कानिचन नियन्त्रणानि आयोजयितुं सर्वकारः न निरणयत्। परन्तु पूर्वम् आयोजितानि नियन्त्रणानि अनुवर्तयिष्यति। तदर्थं निर्देशाः दत्ताः।

कासरगोड् मण्डले पृथक् साहचर्यं परिगणय्य अधिकानि नियन्त्रणानि आयोजयिष्यति। तत्र सम्पूर्णतया पिधानम् इष्यते इत्यपि मुख्यमन्त्री अवदत्।

PRASNOTHARAM (भागः १२४) – 28-03-2020

EPISODE – 124

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सांख्यदर्शनस्य आचार्यः कः ? (क) कपिलः  (ख) कणादः  (ग) पाणिनिः 
  2.  ——-भवति योगदर्शनस्य आचार्यः । (क) जैमिनिः  (ख) पतञ्जलिः  (ग) गौतमः
  3. वैशेषिकं ——–विरचितं भवति।(क) कणादेन (ख) कपिलेन  (ग) गौतमेन
  4. न्यायदर्शनस्य उपज्ञाता कः ? (क) बादरायणः  (ख) गौतमः  (ग) कपिलः
  5. जैमिनेः दर्शनम् किम् ? (क) न्यायम् (ख) वैशेषिकम् (ग) पूर्वमीमांसा 
  6. बादरायणः कस्य दर्शनस्य आचार्यः भवति ? (क) पूर्वमीमांसायाः  (ख) वेदान्तदर्शनस्य  (ग) योगदर्शनस्य
  7. ” कवि ” शब्दस्य प्रथमा द्ववचनम् ? (क) कवौ  (ख) कवेः  (ग) कवी
  8. ” शिशु ” शब्दस्य चतुर्थी एकवचनम् ? (क) शिशवे   (ख) शिशुना (ग) शिशुम्
  9. ” शिवाय ” अत्र विभक्तिः का ?  (क) प्रथमा  (ख) तृतीया (ग) चतुर्थी
  10. ” मातृ ” शब्दस्य प्रथमा बहुवचनरूपम्  ? (क) मातरः (ख) मातृभिः  (ग) मातृषु

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Sreejith
  • Lijina K M
  • Divyachithran N V
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोविड् प्रतिरोधार्थं भारते अद्य ‘जनतानिषेधाज्ञा’ अनुष्ठीयते।

नवदिल्ली- कोविड्-१९ आख्यस्य नवीन कोरोणाविषाणोः व्यापनम् अतिशीघ्रम् आापतति। नवीनामयः इत्यतः प्रतिरोधौषधम् अद्यावधि नानावृतम्। अस्मिन् प्रसङ्गे जागरूकता एव वरम् इति आविश्वं शासनकर्तारः भिषग्वराः अन्ये विद्वांसश्च अनवरतं वदन्ति।

भारते अद्य जनतानिषेधाज्ञा आचर्यते। प्रातः सप्तवादनादारभ्य रात्रौ नववादनं यावत् जनाः गृहेष्वेव तिष्ठेयुः, तत्र शुचीकरणकर्मणि निरताश्च भवेयुः। परह्यः रात्रौ अष्टवादने राष्ट्रजनतामभिसंबोधयन् प्रधानमन्त्री नरेन्द्रमोदीवरर्यः एवं निरदिशत्। राज्यशासकाः अपि निर्देशमेनं शिरसावहन् स्वकीयान् जनान् तदर्थं प्रैरयत्। कोविद् प्रतिरोधार्थम् अनिशं प्रयतमानान् स्वास्थ्यविभागकर्मकरान् अभिवादयितुम् अद्य सायं पञ्चवादने सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन् हस्तताडनेन घण्डानादनेन वा अभिवाद्यमर्पयन्तु।

विविधानि राष्ट्राणि स्वकीयान् जनान् प्रतिरोधमार्गस्य भागत्वेन सम्पर्कनिरोधार्थं प्रेरयन्ति। अनेन एष्या भूखण्डे यूरोप् भूखण्डे अमेरिकायां केषुचन राज्येषुु च जनाः गृहेभ्यो बहिर्गन्तुुं अशसक्ताः भवन्ति। १०० कोटि जनाः एवं कष्टमनुभवन्तीति आवेद्यतते।