Daily Archives: March 28, 2020

केरले प्रथमं कोविड् मरणम्, कोच्ची मट्टाञ्चेरिदेशीयः मृतः।

कोच्ची- केरले प्रथमं कोविड् मरणम् आवेदितम्। ६९ वयस्कः मट्टाञ्चेरि देशीयः एव मृतः। कलमश्शेरि वैद्यकीयकलालयस्थे चिकित्सालये चिकित्सायां तिष्ठन्नेव स मृतः।

मार्च्- १६ दिनाङ्के दुबाई राष्ट्रात् प्रत्यागतः अयं २२ दिनाङ्के पृथक्करण विभागं नीतः आसीत्। अस्य पत्नी अपि रुग्णा भवति। दुबाई तः आगते विमाने अन्ये ४० यात्रिकाः आसन्। ते सर्वे निरीक्षणे सन्ति।

हृद्रोगेण रक्तसम्मर्देन च चिकित्सायामासीत् परेतः।

कोरोणा विषाणुः, निर्णयार्थम् अतिवेगा रीतिः सज्जा भवति- प्रायोजकः केरलीयगवेषकः।

कोषिक्कोट्- केरलीयगवेषकेण अनावृतां तान्त्रिकविद्यामुपयुज्य कोरोणा विषाणुरोगनिर्णयार्थं अल्पव्यया कापि रीतिः सज्जा अभवत्। गोवा राज्यस्था मल्बयो डयग्नोस्टिक् इति संस्था एव रियल् टैं पोयिन्ट आफ् केयर्-पी.सी.अर् कोविड्-19 परिशोधनासूत्रं बहिरानयति। परीक्षणार्थं कोविड् रोगनिर्णयं कर्तुं भारतीय-वैद्यक-पर्यवेक्षणनिगमस्य अनुमतिः संस्थया प्राप्ता। आगामिनि सप्ताहे अन्तिमानुमतिं लब्स्यते। निर्वीर्यं कृत्वा एव प्रतिमानं स्वीक्रियते इत्यतः स्वास्थ्यकर्मकराणां रोगसंक्रमणरूपा आशङ्का दूरीकर्तुं शक्यते।

     एकहोराभ्यन्तरे परिशोधनफलं लभते इत्यतः नूतना इयं रीतिः रोगप्रतिरोधाय अनुग्रह एव स्यात्। 1500 रूप्यकेभ्य नूनं भवति व्ययः। भारते परिशोधनासौविध्यस्य न्यूनता कोविड्-19 प्रतिरोधे महान् आहवः भविष्यतीति विश्व स्वास्थ्य संस्था अभिप्रैति स्म।

     जनितकपरिशोधनाद्वारा सूक्ष्माणु-विषाणुरोगबाधा निर्णेतुम् आयोजिता साङ्केतिकविद्या भवति पी.सी.आर्.(पोलिमरैस्ड् चेयिन् रियाक्षन्) परिशोधना। एतदर्थं सुविधामायोजयितुं 30 लक्षतः एककोटिपरिमितं व्ययः भवति। परन्तु रियल् टैं पोयिन्ट आफ् केयर् पी.सी.आर् परिशोधनार्थं ट्रूनाट् इति कनिष्ठम् उपकरणं पर्याप्तं भवति।

     केरलेषु ओट्टप्पालं देशीयः डो. चन्द्रशेखरन् भास्करन् नायर् वर्यः एव इमां तान्त्रिकविद्यां विकासितवान्।